SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ अदादिप्रक्रिया। . बन्धः । इरितो वा' इत्यस्य सूत्रस्य विशेषणार्थः । तिबादयः । अदादेर्लक् । इत्येतत्सर्वं पूर्ववत् । उपधाया लघोः । अनेन गुणः । सूत्रम् । रुदादेश्चतुर्णा ह्रसादेः। रुदादेः परेषां तिबादिचतुर्णी मध्ये हकारवसादेः प्रत्ययस्येद् भवति । रोदितिः स्वपितिश्चैव श्वसिति प्राणितिस्तथा। जक्षितिश्चैव विज्ञयो रुदादिपञ्चको गणः॥ रोदिति रुदितः रुदन्ति । रोदिषि रुदियः रुदिथ । रोदिमि रुदिव रुदिमः । रुयात, रोदितु-रुदितात् रुदिताम् रुदन्तु । रुदिहि-रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम। रुदादेश्चतुणी बसादेः । रुदादेः (पं ए.) चतुर्णा (प. ब.) इच वस्च हुसौ तौ आदी यस्य स बसादिः वस्य ह्रसादेः (१० ए० ) त्रिपद सूत्रम् । रुदादेः परस्य चतुणा तिबादीनां संबन्धिनो हकारादेवस्पत्याहारादेश्व प्रत्ययस्य इडागमो भवति । ठित्त्वादादौ । अनेन स्वरादिरहिते प्रत्यये परे इडागमो भवति । रुदादयस्तु मूले श्लोकेनोकाः । रोदिति । रुदितः। रुन्ति । अन्यानि मूले सन्ति । रुद्यात् । रुद्यातां । रोदितु । रुदिहि । लङ्लकारे । सूत्रम् । - रुदादेर्दिस्योरीडटौ च वक्तव्यौ । अरोहीत, अरोदन, रुरोद, रुरुदतु., स्यात्, रोदिता, रोदिष्यति, अरोदिष्यत्, अरोदीत् । इरितो वा । अरुदत् । भिष्वप् शये । जिइत् । स्वपिति स्वप्यात् स्वपितु-स्वपितात् । अस्वपीत् अस्वपत् संप्रसारणम् । सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ-सुष्वप्थ । सुप्यात्, स्वप्ता, स्वप्स्यात, अस्वप्स्यत् । अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः । श्वस् प्राणने । श्वसिति, श्वस्यात् श्वसितु, अश्वसीत् । अश्वसत् अश्वसताम् अश्वसन् । शश्वास शश्वसतुः शश्वसुः। श्वस्यात्, श्वसिता, श्वसिष्यति, अश्वसिष्यत् । हयन्तक्षणेति वृद्धयभावः । अश्वसीत् । अन प्राणने।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy