________________
३७२
सारस्वते द्वितीयवृत्ती
ता सीस्यां । सेः । णित्पे । अनेन सेणिन्त्वात् वृद्धौ प्राप्तायां । सूत्रम् । जनिवध्योर्न वृद्धिः । वधादेशे कृते इट् अवधीत् अवधिष्टाम् अवधिषुः । अवधीः अवधिष्टम् अवधिष्ट । यु मिश्रणे । गुणः ।
जनिवध्योः । जनिवध्योधीत्वोर्वृद्धिर्न भवति अनेन दृद्धिनिषेधः । इट ईटि । अवधीत् । अवधिष्टां | अवधिषुः । यु मिश्रणे । पूर्ववत्तिबादयः | अदादेर्लुक् । अनेन लुगू भवति । यु तिष् इति स्थिते । सूत्रम् ।
ओरौ । उकारस्याद्विरुक्तस्य औकारादेशो भवति पिति त्स्मि अबाद विषये । यौति युतः । नु धातोः । युवन्ति । यौषि युधः युध । यौमि युवः युमः । युयात् । यौतु युतात् युताम युवन्तु । हि युतात् तम् युत । यवानि यवाव यवाम । अयौत् अयुताम् अयुवन् । अयौः अयुतम् अयुत । अयवम् अयुव अयुम । धातोर्नामिनः । युवाव । नानप्योर्वः । युयुवतुः युयुवुः । युयविथ युयुवथुः । यूयात्, यविता,, यविष्यति, अयविष्यत्, अयावीत् अयाविष्टाम् अयाविषुः । तु गतिवृद्धिहिंसासु ।
1
ओरौ । ओः (ष. ए. ) औ ( प्र. ए. ) अद्विरुक्तस्य उकारस्य उकारादेशो भवति पिति त्स्मि परे । अवादौ विषये । अनेनोकारस्यौकारः । पौति । युतः । नुधातोः । युवन्ति । यूयात् । यौतु । युतात् । युतां । युवन्तु । युहि । युताः । युतं । युत । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः . अयुतम् । अयुत । अयवम् । अयुव । अयुम । यु णप् । इति स्थिते । द्विश्व | धातोनोमिनः । अनेन वृद्धिः । युयाव । यु अतुस् इति स्थिते । द्विश्च । नुधातोः । नानप्योर्वः । युयुवतुः । युयुवुः । युयविथ । ये । पूयात् । गुणः । सिसतासीस्पां । अव् । यविता । लुङ्लकारे । णित्पे । धातोर्नामिनः । अयावीत् अयाविष्टाम् याविषुः । तु गतिवृद्धि हिंसादिषु । पूर्ववत्तिवादयः । अदादेर्लुक् । भोरौ । ताँति सूत्रम् ।
1
तरुनुस्तुभ्यो द्विरुक्तेभ्यो हसादीनां चतुर्णामीड्डा । सौति