________________
भ्वादिप्रक्रिया |
३६५
भिलाषे । व्यच् व्यक्तीकरणे । पृच्छज्ञीप्सायां । पृच्छायां भ्रस्ज् पाके । ब्रश्व छेदने । इत्येतेषां संबन्धिनां यकारवकाररेफाणां किति ङिति च परे संप्रसारणं भवति । यकारस्य इकारः वकारस्य उकारः रेफस्य ऋकारः लकारस्य ऌकारः संप्रसारणं । अनेन द्वितीयं संप्रसारणं । यकारस्य संप्रसारण निषेधो वाच्यः । अत्र । ऊयतुः ऊयुः । safar आत्मनेपदे । ऊये । ऊयाते । ऊयिरे । सूत्रम् ।
वयो यस्य किति णादौ वो वा वक्तव्यः । वतुः ऊवुः । ऊवे, ऊयात्, वासीष्ट, वातां, वाता, वास्यति, वास्यते, अवास्यत्, अवास्यत, अवासीत् । आदन्तानाम् । इति इट्सकौ । अवासिष्टाम् । अवास्त । व्येञ् संवरणे । व्ययति व्ययते ।
1
वयः । वयो यस्य किति णादौ परे वकारो वा वक्तव्यः । तदा । उवाय । ऊवतुः । ऊवुः । आत्मनेपदे । ऊवे । ऊवाते ऊविरे । ग्रहां कृिति च । ऊयात् । संध्यक्षराणामा । वासीष्ट । वाता । वाता । अन्यानि मूले सन्ति । लुट्लकारे । आदन्तानां । अवासीत् । अवासिष्टां । अवासिषुः । अवास्त | अवासाताम् । भवासत । व्ये संवरणे । व्ययति । व्ययते । लिट्लकारे । सूत्रम् ।
व्येत्रो णादौ नात्वम् । विव्याय विव्यतुः विव्युः ।
व्येञः । व्येत्रो धातोर्णबादी परे संध्यक्षराणामा अनेन सूत्रेण आत्वं न भवति व्येञ् णपू इति स्थिते । द्विन् । णबादी पूर्वस्य । अनेन संप्रसारणं तदा । विव्ये णपू इति जाते । धातोर्नामिनः । विव्याय । विव्यतुः । विव्युः ।
अत्त्यर्तिव्ययतीनां थपो नित्यमिद् । विव्ययिथ । विव्ये, वीयात्, व्यासीष्ट, व्याता, व्याता, व्यास्यति, व्यास्यते, अव्यास्यत् अव्यास्यत, अव्यासीत्, अव्यास्त । हे स्पधयाम् । ह्वयति, ह्वयते ।
अन्त्यर्ति । विव्ययिष । विव्ये । वीयात् । संध्यक्षराणामा । व्यासीष्ट । व्याता । व्याता । अन्यानि मूले, सन्ति । अव्यासीत् । अव्यास्त । ह्वेय् स्पर्धायां । ह्वयति । ह्वयते । लिट्लकारे सूत्रम् ।
अद्विरुक्तस्य ह्वयतेः संप्रसारणं वक्तव्यम् । जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ । जुहुवे जुहुवाते जुहुविरे । हूयात्
·