SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया | ३५९ जाते ' गमांस्वरे ' अनेनोपधाया लोपो भवति । स्वरहीनं० । चख्ने । खन्यात् । अत्रेदं सूत्रम् । जनखनसनां विति ये आकारो वा वक्तव्यः । स्वायात्, खनिषीष्ट, वनिता, वनिता, खनिष्यति, खनिष्यते, अखनिष्यत्, अखनिष्यत, अखानीत्, अखनीत्, अखनिष्ट | हृञ् हरणे | हरति, हरते, हरेत्, हरेत, हरतु, हरताम्, अहरत । जहार जहतुः जहुः । जनखनसनाम् । जन खन सन एतेषां धातूनां किति यकारे । परे आकारो वा वक्तव्यः । षष्ठीनिर्दि० । खायात् । खनिषीष्ट । खनिता । खनिता । लुङ्लकारे हसादे: । अनेनास्प वा वृद्धिः । अखानीत् । अखनीन् । अखनिष्ट | अखनिषाताम् । अवनिषत । हृञ् हरणे । अकार उभयपदार्थः । गुणः । हरति । हरते | लिट्लकारे धातोर्नामिनः । अनेन वृद्धिः । कुहोश्चः । जहारं । जहतुः । ऋदन्तस्य थपो नेट् । जहर्थ । जहे । यादादौ । हियात् । ऋदन्तस्य । ऋदन्तस्य धातोस्थप इट् न भवति । गुणः । जहर्थं । नहे । यादादौ । अनेन ऋकारस्य रिङादेशः । हिपात् । हसीष्ट इति जाते । गुणः । अनेन गुणे प्राप्ते । तन्निषेधकं सूत्रम् । उः । ऋकारस्य गुणो न भवति सिस्योरनिटोः परतः । हृसीष्ट । हर्ता | हनृतः स्यपः । हरिष्यति, हरिष्यते, अहरिष्यत्, अहरिष्यत, अहार्षीत् । लोपों ह्रस्वाज्झसे । अहृत अहृषाताम् अहृषत । गुहू संवरणे । उः । उः (ष. ए. ) अनिटोः सिस्योः परत ऋकारस्य गुणो न भवति । अनेन गुणनिषेधः । हृसीष्ट । गुणः । हर्त्ता । हनृतः स्यपः । अनेन स्यपि इड् भवति । गुणः । हरिष्यति । हरिष्यते । लुङ्लकारे । वृद्धिः । अहात् । लोपो हस्वा ज्झसे । अनेन सेर्लोपो भवति । अहृत । अहृषाताम् । अहृषत | गुडू संवरणे । ऊकार इविकल्पार्थः । पूर्ववत् तिवादयस्तआदयश्च प्रत्यया भवन्ति । गुहेरुपधाया ऊगुणहेतौ स्वरे । गृहति - गूहते, जुगूह, जुगुह
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy