________________
सारस्वते द्वितीयवृत्ती डभावपक्षे सह ता इति स्थिते । होटः अनेन हस्य ढः । तयोः अनेन सस्प धः । ष्टुभिः ष्टुः । ढि ढो लोपो दीर्घश्च । तदा सा ढा इति जाते । सूत्रम् ।
सहिवहोरोदवर्णस्य । सहिवहोरवर्णस्यौकारादेशो भवति ढलोपंनिमित्ते ढकारे परे। सोढा सहिष्यते असहिष्यत असहिष्ट।
. ॥ इति भ्वादिष्वात्मनेपदिप्रक्रिया ॥ सहिवहोरोदवर्णस्य । सहिश्च वह च सहिवहौ तयोः सहिवहोः (प.द्वि. ) ओत् (प्र. ए.) अवर्णस्य (ष. ए.) सहिवहोर्धात्वोरवर्णस्य ओकारों भवति ढलोपनिमित्ते डकारे परे । अनेन ओकारः । सोढा । सोढारौ । सोढारः । सहिण्यते । असहिष्यत । असहिष्ट । असहिषातां । असहिषत ॥
॥ इति भ्वादिगणस्यात्मनेपदिप्रक्रिया समाप्तिमगमत् ॥
॥अथोनयपदिप्रक्रिया। राजू दीप्तौ। ऋकार ऋदित्कार्यार्थाराजति,राजते,राजेव,राजेत,राजतु,राजताम्,अराजत्,अराजत, रराज । फणादित्वादेत्वपूर्वलोपौ। रेजतुः-रराजतुः,रेजुः-रराजुः, रेजे, राज्यात्, राजिषीष्ट, राजिता, राजिता, राजिष्यति, राजिष्यते, अराजिष्यत्, अराजिष्यत, अराजीव, अराजिष्ट ।
खन खनने । खनति, खनते, खनेत, खनेत, खनतु, ख.नताम, अखनत्, अखनत, चरखान । गमां स्वरे । चरूनतुः चख्नुः । चख्ने, खन्यात् ।
॥ अथ भ्वादिगणस्योभयपदिप्रक्रिया कथ्यते ॥ राजृ दीप्तौ । उभयपदिनो धातोस्तिबादयस्तादयश्च प्रत्यया भवन्ति । द्वयोः परयोः सतोरप कचरि । अनेन अप् प्रत्ययो भवति । ऋकार ऋदितकार्यार्थः । राजति । राजते । लिट्लकारे फणादीनां अनेनास्य वा णत्वपूर्वलोपौ । रराज | रेजतुः । रराजतुः । रेजिथ । रराजिथ । आत्मनेपदे । रेजे । णत्वपूर्वलोपाभावे । रराजे । राज्यात् । राजिषीष्ट । राजिता । राजिता । अन्यानि मूले सन्ति तानि सुगमानि पूर्वोत्तरेव सूत्रैः सिद्धयन्ति । लुङ्लकारे । अराजीत् । अराजिष्टाम् । अरानिषुः । अराजिष्ट । अराजिषातां । अराजिषत । खन खनने । अकार उभयपदार्थः । खनति । खनते । लिट्लकारे अत उपधायाः । अनेन वृद्धिः । कुहोचः । चखान । चखन् अनुस् इति