________________
भ्वादिप्रक्रिया। . ३५७ ' व्यथतेर्णादौ पूर्वस्य संप्रसारणं वक्तव्यम् । विव्यथे, व्यथि
षीष्ट, व्यथिता, व्यथिष्यते, अव्यथिष्यत, अव्यथिष्ट । रमु । क्रीडायाम् । रमते, रमेत, रमताम्, अरमत ।
व्यथतेर्धातोर्णादौ परे पूर्वस्य संप्रसारणं वक्तव्यम् । इदं मूले सूत्रमस्ति अनेनास्य धातोः संप्रसारणं भवति । विव्यथे । विव्यथाते । विव्यथिरे । व्यथिषीष्ट । व्ययिता लुङ्लकारे । अव्यथिष्ट । रमु क्रीडायाम् । रमते । रमेत । रमतां । अरमव.! सूत्रम् ।
व्यापर्युपेभ्यो रमः पम् । विरमति, आरमति, परिरमति, 'उपरमति, रेमे, रंसीष्ट, रन्ता, रंस्यते अरस्यत, अरस्त, अरंसाताम् । अरंसत । विपूर्वः। आदन्तानाम् । इतीट्सको । व्यरंसीत् व्यरंसिष्टाम् । जित्वरा संभ्रमे । त्रिआवितौ । त्वरते, त्वरेत, त्वरताम्, अत्वरत, तत्वरे, त्वरिषीष्ट, त्वरिता, त्वरिष्यते, अत्वरिष्यत, अत्वरिष्ट, अत्वरिवं-अत्वरिध्वम् । षह मर्षणे । सहते, सहेत, सहताम्, असहत, सेहे, सहि-' षीष्ट, सहिता । इषुसह० इति बेट् । होढः । तयोर्धः । ष्टुत्वम् । ढलोपः।
व्यापर्यपेभ्यः । वि आङ् परि उप एभ्य उपसर्गेभ्यो रमधातोः पं परस्मैपदं भवति । विरमति । आरमति । परिरमति । उपरमति । लिट्लकारे । लोपः पचाम् । अनेनैत्वपूर्वलापौ भवतः । रेमे । रेमाते । रेमिरे । नश्वापदान्ते झसे । भनेन मकारस्यानुस्वारो भवति । रंसीष्ट । रन्ता । लुल्लकारे । अरस्व ।' अरंसातां । अरंसत । यदायं धातुर्विपूर्वः स्यात् । तदात्मनेपदं भवति । आदम्तानाम् । अनेन परस्मैपदे सति इट्सको भवतः । व्यरम् स् इट् सि ईद दिप् इति स्थिते । इट . ईटि सवणे । स्वरहीनं । नश्वापदान्ते । वावसाने । परंसीत् । व्यरंसिष्टाम् । व्यरंसिधुः । नित्वरा संभ्रमे । त्रिभावितौ । पूर्ववत् तादयः । त्वरते । लिट्लकारे द्विश्च । पूर्वस्य हसादिः शेषः । तत्वरे । तत्वराते । तत्वरिरे। त्वरिषीष्ट । लुङ् लकारे अत्वरिष्ठ । अत्वरिषावां । भत्वरिषत । षह मर्षणे । आदेः ष्गः नः । अनेन सत्वम् । सहते । लिट्लकारे । ' लोपः पचाम् ' अनेनत्वपूर्वलोपौ । सेहे । 'सेहाते । सेहिरे । सहिषीष्ट ! सहिता । ' इषुसह० । अनेनास्य वा इट् भवति । इ.