SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३५४ ' सारस्वते द्वितीयवृत्तौ लोपो इस्वाज्झसे । हस्वादुत्तरस्य सेर्लोपो भवति झसे परे। अदित अदिषाताम् अदिषत । डीङ् विहायसा गतौ । डयते डयेत डयताम् अडयत । नुधातोः। डिड्ये, डयिषीष्ट, डयिता, डयिष्यते, अडयिष्यत, अडयिष्ट । दैङ् त्रै पाल· ने। दायते, दायेत, दायताम्, अदायत । , लोपो हस्खाज्झसे । लोपः (प्र. ए.) हस्वात् (पं. ए.) झसे ( स. ए.) हस्वादुत्तरस्य सेलोपो भवति झसे परे । अनेन सेर्लोपो' भवति । अदिव । अदिषातां । अदिषत । डीङ् विहायसा गतौ । स्कारः सर्वत्रात्मनेपदार्थो ज्ञातव्यः । गुणः । डयते । डयेत । लिट्लकारे नुधातोरनेन इय् भवति । डिडये । डिड्याते । डिडियरे । गुणः। डयिषीष्ट । अन्यानि मूले सन्ति । लुङ्लकारे । अडयिष्ट । महयिषाताम् । अडयिषत । दैङ् त्रैङ् पालने पूर्ववतू तादयः । एआय । दायवे । त्रायते । लिलकारे सूत्रम् । दैलो णादौ दिग्यादेशो द्वित्वाभावश्च । दिग्ये, दासीष्ट । अपिद्दाधास्थामि० । लोपो हस्वाज्झसे । अदित । तत्रे । अत्रास्त । युतङ् द्योतने । उपधाया लघोः । द्योतते, योतेत, योतताम्, अयोतत ।। दैङः। दैो धातोर्णादौ परे सवि दिग्यादेशो द्वित्वाभावश्च भवति । आतोनपि । दिग्ये । दिग्याते । दिग्यिरे । संध्यक्षराणा० दासीष्ट । लुङ्लकारे । अपिद्दाधा० । लोपो हस्वा० । अदित । अदिषाताम् । अदिषत । त्रैधातोलिक कारे संध्यक्षराणामा० । अनेनाकारः। द्विश्च । हस्वः । पूर्वस्य । आतोनपि । अनेना कारलोपः । तत्रे । तत्राते । तत्रिरे । अस्य धातोढुंङ्लकारे संध्यक्षरा । अत्रास्त । अत्रासातां । अत्रासत । धुतङ् द्योतने । अकार उच्चारणार्थः । उकार आत्मनेप. दार्थः । 'उपधायाः अनेन गुणो भवत्यस्य । द्योतते । अन्यानि मूले सन्ति । घुत् ण इति स्थिते द्विश्च । धु द्युत् ण इति जाते सूत्रम् । श्रुतेः पूर्वस्य संप्रसारणं वक्तव्यं णादौ परे । दिद्युते, द्योतिषीष्ट, द्योतिता, द्योतिष्यते, अयोतिष्यत, अद्योतिष्ट । दातेः । धुवेर्धातोः पूर्वस्य संमसारणं वक्तव्यं णबादौ परे सति । अनेनास्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy