SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृत्तौ I चेष्टायाम्। ईहते, ईहेत, ईहताम, ऐहत, ईहांचक्रे, ईहिपीष्ट ईहिता, ईहिष्यते, ऐहिष्यत, ऐहिष्ट । काश दीप्तौ । काशते, काशेत, काशताम्, अकाशत | विददरिद्रा० काशांचक्रे चकाशे, काशिषीष्ट, काशिता, काशिष्यते, अकाशिष्यत, अकाशिष्ट । कास्ट शब्द कुत्सायाम् । कासते, कासेत, कासताम्, अकासत, कासांचक्रे, चकासे, कासिषीष्ट, कासिता, कासिष्यते, अकासिष्यत, अकासिष्ट । षितृ सेवने । सत्वम् । सेवते, सेवेत, सेवताम्, असेवत, सिषेवे सिषेवाते, सेविषीष्ट, सेविता, सेविष्यते, असेविष्यत, असेविष्ट । गाइ गतौ । सवर्णदीर्घे कृते । आकारत्वादातोऽन्तो दनतः । गाते गाते गाते । गेत, गाताम्, अगात । जगे, जगाते, जगिरे । गासीष्ट, गाता, गास्यते, अगास्यत, अगास्त, अगासाताम् । रुङ् गतौ भाषणे च । गुणः । रवते, खेत, खताम्, अरवत अश्वेताम् | अनेकस्वरत्वादसंयोगपूर्वत्वाचोकारस्य वत्वे प्राप्ते । 1 अयतौ । अयतौ धातौ परे उपसर्गरेफस्य लत्वं वाच्यम् । अनेन रकारस्य लकारः । तदा पलायते इति रूपं सिद्धम् । लिट्लकारे कासादिप्रत्ययादाम् अनेनाम् प्रत्ययो भवति । अयांचक्रे । द्वे मूले स्तः । अयिषीष्ट । लङ्लकारे । आयिष्ट । दय दानगतिहिंसादानेषु । अस्यापि धातोरयतिवत् रूपाणि ज्ञेयानि । घट चेष्टायाम पूर्ववत् तआदयः । घटते । लिट्लकारे । कुहोश्चः । अनेन घस्य झः । जधटे । जघटाते । जघटिरे | घटिषीष्ट । लुङ्लकारे । अघटिष्ट | ईह चेष्टायाम् । दीर्घे" कासापधत्वात् न गुणः । ईहते । लुङ्लकारे स्वरादेः । ऐहत । लिट्लकारे । दि० ' अनेनास्याम् । ईहांचक्रे । ईहिषीष्ट । लङ्लकारे । ऐहिष्ट । काशुड् दीप्तौ । उकारङकारौ इतौ | काशते । लिट्लकारे । ' विददरिद्रा ' अनेनास्य वाम् प्रत्ययो भवति । काशांचक्रे । आमभावे । कुहोश्चः । ह्रस्वः । चकाशे । काशिषीष्ट । लुङ्लकारे । अकाशिष्ट । कार शब्दकुत्सायां । ऋकार इत् । पूर्ववत् तथादयः । कासते । लिलकारे कासादिप्रत्ययादाम् । अनेन नित्ये प्राप्ते विददरिद्रा० अनेन वा भवति । कासांचक्रे । आमभावे चकासे । कासिपीष्ट । कासिता । लुइलकारे । , ३५२
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy