________________
भ्वादिप्रक्रिया।
३५१ अङि लघौ हस्व उपधायाः। अङि सत्युपधाया इस्वोभ' वति पूर्वसंबन्धिनोऽकारस्येकारो भवति लघुनि धात्वक्षरे परे।
अङि लघौ हस्व उपधाया। अङि। (स. ए.) लघौ । ( स. ए.) हस्वः (प्र. ए.) उपधायाः (प. ए.) अङि प्रत्यये सति । धातोः लघौ परे पूर्वसंबधिनोऽकारस्य इकारो भवति । दीर्घादेर्धातोरुपधाया हस्वोऽपि भवति । अनेन अकारस्य इकारः । उपधाया इस्वः । तदा अचिकम् अङ् वन् । इति जाते । सूत्रम् । .
लघोर्दीर्घः। अङि सति हसादेर्लघोः पूर्वस्य दी? भवति लघुनि धात्वक्षरे परे । अचीकमत अचीकमेताम् अचीकमन्त । अरभावपक्षे।
लघोर्दीर्घः । लघोः । (प. ए.) दीर्घः । ( म. ए.) अङि सति । हसादेर्लघोः पूर्वस्य दी? भवति लघुनि धात्वक्षरे परे सति । अनेनेकारस्य दीर्घः डकार: तनो नकारः। स्वरहीनं० । अचीकमत । अचीकमेवां । अचीकमन्त । बेरभावपक्षे सूत्रम् ।
कमेड्विवे वाच्ये । ज्यन्तत्त्वाभावान दीर्वकारौ । अचकमत । अय गतौ । अयते, अयेत, अयताम्, आयत ।
कमेः । कमेर्धातोरङ्मत्ययद्वित्वे वाच्ये । अनेनाङ्मत्ययः । द्वित्त्वं च भवति । ज्यन्तत्वाभावात् न दीर्धकारौ । अचकमत । अचकमेतां । अचकमन्त । इत्यादीनि रूपाणि ज्ञेयानि । अय गतौ । पूर्ववत् तेादयः प्रत्यया भवन्ति । अयते । यदापं धातुः परापूर्वः स्याचदा वक्ष्यमाणेन सूत्रेण लत्वं भवति । सूत्रम् ।
परापूर्व अयतावुपसर्गरेफस्य लवं वाच्यम् । पलायते, पलायेत; पलायताम्, अपलायत, अयांचक्रे, अयामास, अयांबभूव, अयिषीष्ट, अयिता, अयिष्यते, आयिष्यत । आयिष्ट, आयिषाताम्, आयिषत । आयिर्बु-आयिध्वम् । दय दानगतिहिंसादानेषु-। दयते । अयतिवत्प्रक्रिया। घट चेष्टायाम् । घटते; घटेत, घटताम्, अघटत । कुहोश्चः। जघटे, घटिषीष्ट, घटिता, घटिष्यते, अघटिष्यत, अघटिष्ट । ईह