________________
भवादिप्रक्रिया |
૨૪૦.
शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ । संप्रसारणं ये। शूयात, श्वयिता, श्वयिष्यति, अश्वयिष्यत् ।
श्वयतेः । श्वयतेर्धातोर्णादौ परे प्रथमं संप्रसारणं वा वाच्यं । अनेनास्य पूर्व संप्रसारणं ततो द्वित्वं । शुशु णम् इति जाते धातोर्नामिनः । अनेन वृद्धिः । शुशाव | शुशु अतुस् इति जाते । नुधातोः । अनेन वकारे प्राप्ते नानप्योवः । अनेन वक्ष्यमाणेन सूत्रेण तनिषेधः । किंतु इय् एव भवति । श्रुशुवतुः । शुशविथ । संप्रसारणाभावपक्षे धातोर्नामिनः । शिश्वाय । नुधातोः । शिश्वियतुः । गुणः । शिश्वयिथ । संप्रसारणं ये । शूयात् । श्वयिता । श्वयिष्यति । अश्वयिष्यत् । अश्वि इसि इट् दिप इति जाते । णित्पे । अनेन सेर्णित्वात् वृद्धेः प्राप्तौ । सूत्रम् ।
श्वयतेः सौ वृद्धयभावो वाच्यः । अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । इरितो वा ।
श्वयतेः । श्वपतेर्धातोः सौ परे वृद्ध्यभावो वाच्यः । अनेन तन्निषेधः । गुणः । इट ईटि । इत्यादिसूत्रैः अश्वयीत् इति रूपं सिद्धं भवति । अस्येरितोवानेन वा प्रत्ययो भवति । तदा अश्विङ दिपू इति जाते सूत्रम् ।
श्वयतेरिलोपो ङे वक्तव्यः । अश्वत् ।
श्वयतेः । श्वयतेर्धातोर्डप्रत्यये परे इकारस्य लोपो वक्तव्यः । अनेनेकारस्य लोपो भवति । अश्वत् अभ्वतां अश्वन् । अन्यदपि सूत्रम् । श्वयते हित्वं वा । अशिश्वियत इत्यादि । ॥ इति भ्वादिषु परस्मैपदिप्रक्रिया ||
श्वयतेः । श्वयतेर्धातोः उप्रत्यये परे द्वित्वं वा भवति । पूर्वस्य । नुधातोः । अशिश्वियत् । अशिश्वियतां । अशिश्वियन् । इत्यादीनि रूपाणि ज्ञातव्यानि । इति भ्वादिगणस्य परस्मैपदिप्रक्रिया कथिता । अथात्मनेपदिप्रक्रिया कथ्यते ।
अथ भ्वादिष्वात्मनेपदिप्रक्रिया । एध वृद्धौ । एधते, एघेत, एधताम्, ऐधत । कासादिप्रत्ययादाम् । एघांचक्रे । आम्प्रत्ययो यस्माद्विहितः स चेदात्मनेपदी तर्हि अनुप्रयुक्तकृञ आत्मनेपदं भवसोर्नात्मनेपदम् । एधामास एधांबभूवविधानसामर्थ्यादस्तेर्भभावो न । इट् । एधिषीष्ट एधिता एधिष्यते ऐधिष्यत ऐधिष्ट ऐधिषाताम् । ईक्ष दर्शनानयोः ।
૪૪