SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृत्तौ सति । ऊषतुः ऊषुः । उवसिथ उवस्थ । संप्रसारणम् । ष त्वम् | उष्यात् । वस्ता । घसादेः षः । घस् आदिर्यस्य सः घसादिः तस्य घसादेः ( ष० ए० ) पः (प्र. ए . ) किलात्परस्य । घस्ल अदने । शास् अनुशिष्टौ वस् निवासे इत्येतेषां धातूनां सकारस्य षकारो भवति । अत्र ' क्विलात् ' इति सूत्रस्य प्राप्तिरेव नास्ति तस्मात् सूत्रं कृतम् । अनेन सस्य षः । स्वरहीनं । ऊषतुः । ऊषुः । अत्त्वतः । उवसिथ । उवस्थ । यजां | घसादेः । उष्यात् । वस्ता । वस् स्यप् तिपू इति स्थिते सूत्रम् । ३४४ संस्तोऽनपि । सकारस्य तकारो भवति अनपि सकारे परे । वत्स्यति अवत्स्यत् । वृद्धिः । अवात्सीत । झसात् । प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । अवात्ताम् अवात्सुः । वद व्यक्तायां वाचि । वदति, वदेत्, वदतु, अवदत् । उवाद ऊदतुः ऊदुः । उवदिथ । उद्यात् वदिता, वदिष्यति, अवदिष्यत, अवादीत् । टुओश्वीर गतिवृद्धयोः । टुकारौ - कारौ कार्यार्थी । इर् इत्संज्ञकः । श्वयति, श्वयेत् श्वयतु, अश्वयत् । सस्तोऽनपि । सस्तोsनपि । सः (ष. ए. ) तः (प्र. ए.) अनपि ( स ए.) त्रिपदं सूत्रं । धातोः सकारस्यानपि विषये णबादिविभक्तिषट्टविषये सकारे परे तकारो भवति । अनेन सकारस्य तकारो भवति । वत्स्यति । अवत्स्यत् । सावनिटो नित्यं । अनेन वृद्धिः । अवाप्सीत् । झसात् । सस्तोऽनपि । प्रत्ययलोपे ० इति न्यायात् वृद्धिः । भवात्तां । अवात्सुः । वद व्यक्तायां वाचि । वदति । लिट् लकारे णवादौ । अनेन संप्रसारणं । अत उपधायाः । अनेन वृद्धिः । उवाद । यजां । ऊदतुः । ऊदुः । उवदिथ । संप्रसारणं । उद्यात् । वदिता लुङ्लकारे । अवादीत् | हसादे: । अवदत् । अवीर गतिवृद्धयोः । टुकारौकारौ कार्यार्थी । इर् इत्संज्ञकः । पूर्ववत् तिवादयः । गुणः एअय् । श्वयति । लिट्लकारे सूत्रम् । I श्वयतेर्णादौ प्रथमं संप्रसारणं वा वक्तव्यम् । ततो द्वित्वम् । शुशाव शुशुवतुः शुशुवुः । शुशविथ । संप्रसारणाभावपक्षे
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy