SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। ३४३ वप् वद् वसा श्वयतेहादीनां ग्रह ज्या व्येषु हृञ् व्यधू वश् व्यच् मच्छ् ब्रश्च भ्रस्जादीनां च धातूनां पूर्वस्य द्वित्वस्य णबादौ परे संप्रसारणं भवति । यकारवकाररेफाणाम् इकारोकारऋकारा भवन्ति । सस्वरस्पाक्षरस्य संपसारणं भवति । इस्वस्याक्षरस्य इस्वः । दीर्घस्याक्षरस्य दीर्घः। गृहिावयी व्यधिर्वष्टिविचतिर्दृश्चतिस्तथा ॥ -पृच्छति जतिश्चैव नवैते तु ग्रहादयः॥ पूर्ववकारस्योत्वे । अत उपधायाः। उवास । उवसू अतुस् इति स्थिते । ग्रहादयः श्लोकेनोक्ताः सन्ति । अनेन पूर्वस्प वकारस्य संप्रसारणं जातं । हस्वत्वात् हस्वः । अनेन सूत्रेण पूर्वस्य वकारस्य उकारः । तदा उवस् णम् इति जाते । अत उपधायाः । स्वरहीनं० । उवास । ववस् अतुस् इति स्थिते । णबादौ पूर्वस्य अनेन पूर्वस्य संपसारणं । उवर अतुस् इति जाते । सूत्रम् । यजां यवराणां कृतः संप्रसारणं किति । यजादीनां संप्रसारणं भवति किति परे। यजा यवराणां खतः संप्रसारणं किति। यजां (प. व. ) यवराणां (प. ब.) इश्च उश्च ऋत् च वृतः (प्र. ब.) संप्रसारण (म. ए.) किति (स. ए.) पंचपदं सूत्रम् ग्रहादीनां तु किति किति च परे संप्रसारणं भवति । यजादीनां तु केवले किति पर एव संप्रसारणं भवति । अत एव पृथक् सूत्रकरणम् यत्तु स्वपव्येमोर्यकि संप्रसारणं तत्र प्रक्रियायां पृथक् सूत्रमस्ति । स्वपिस्वमिव्येनां यङि अथवा स्वप्व्येश्ह्वयां ग्रहादिमध्ये यद् ग्रहणं तत् यङि प्रत्यये संमसारणार्थ नान्यत्र । यजादीनां धातूनां यकारवकारयोः किति परे संप्रसारणं भवति । यवराणामित्यत्र रकारग्रहणं ग्रहां ङ्किति । इति संप्रसारणसूत्रेवृत्त्यर्थज्ञेयम् । यकारवकाररेफाणाम् इकारोकारऋकारा भवन्ति । सस्वरस्य संपसारणं भवति । इस्वस्य इस्वः। दीर्घस्य दीर्घः । अनेन द्वितीयस्य वकारस्य संसारणं भवति । यजिपिर्व हिश्चैव वेञ्व्येनौ ह्वयतिः स्वपिः॥ वहसी श्वयतिर्वक्तिरेकादश यजादयः॥ सवणे दीर्घः सह। यजादयस्तु मूले श्लोकेनोक्ताः । उउस् अतुस् इति स्थिते सूत्रम् । घसादेषः। घसिशासिवसीनां सस्य षो भवति षत्वनिमित्ते
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy