________________
सारस्वते द्वितीयवृत्तो ऋदन्तस्य । दन्तस्य धातोः स्थप इड् न भवति । जह्वर्थ । हदि । हर्चा | हनृतः । हरिष्यति । अह्वरिष्यत् । णित्पे । अनेन णित्त्वात् वृद्धिः । अहाषीत् । स्कन्दिर गतिशोषणयोः । इर् अनुबन्धः इरितो वा इति सूत्रस्प विशेषणार्थः । स्कन्दति । लिट्लकारे । स्कन्दू णप् इति स्थिते द्विश्च । शसात् । पूर्वस्य । कुहोचः । चस्कन्द । संयोगात् । अनेनाकित्त्वात् नोलोपः इति सूत्रेणानुस्वारस्य लोपो न भवति । चस्कन्दतुः । अत्त्वतः । अनेनास्य वेट् । चस्कन्दिथ । इ. उभावे चस्कन्द थप् इति स्थिते सूत्रम् । - हसात्परस्य झसस्य सवर्ण झसे लोपो वाच्यः । चस्कन्थ ।
नो लोपः । स्यात्, स्कन्ता, स्कन्त्स्यति, अस्कन्त्स्यत् ।
हसात् । हसात् परस्य सवर्णे झसे परे लोपो वाच्यः । अनेन दस्य लोपः । चस्कन्थे । नोलोपः । स्कद्यात् । हसात् । स्कन्ता । खसे चपा झसानाम् । स्कन्स्पति । अस्कन्तस्यत् । सूत्रम् ।
सावनिटो नित्यं वृद्धिः । णित्त्वविधानसामर्थ्यादनुपधाभूतस्याप्यतो वृद्धिः । अस्कान्त्सीत् । इरितो वा । अस्कदव । तू प्लवनतरणयोः । तरति, तरेत्, तरतु, अतरत् । किस्वाभावाहुणः । ऋसंयोगादेांदेरकित्त्वं वाच्यम् । तूफलभजत्रपाम् । इत्येत्वपूर्वलोपौ । ततार तेरतुः तेरुः । तेरिथ।
सावनिटः । सौ परे सति अनियो धातोनित्यं वृद्धिभर्वति । अस्य धातोर्टद्विमाप्तिरेव नास्ति । तत्राह । णित्त्वविधानसामर्थ्यात् । अनुपधाभूतस्यातोऽकारस्य वृद्धिः । खसेचपाझसानां | अस्कान्त्सीत् । इरितो वा । अनेनास्य वा प्रत्ययो भवति । नोलोपः । अस्कदत् । त वनतरणयोः । गुणः। तरति । अन्यानि मूले सन्ति । लिट्लकारे । ततार । संयोगात् । अनेनाकित्त्वाद् गुणः । तृफलभजत्रपाम् । अनेनास्यैत्वपूर्वलोपौ भवतः । तेरतुः । तू यादिति स्थिते सूत्रम् ।
ऋत इर। ऋकारस्य इर भवति किति उिति च परे । यबोविहसे । तीर्यात् ।
ऋत इर । अतः (ष. ए.) इर् (म.ए.)ऋकारस्य किवि निति च परे इर्भवति । बोर्विहसे । अनेन दीर्घः । तीर्यात् ।' तर् इट् ता' इति स्थिते सूत्रम् ।
ईटो ग्रहाम् । ग्रहादीनामिट ईकारो भवति । तरीता-तरि