________________
भ्वादिप्रक्रिया। . ३३५ वति यकि यङि किति णादावाशीयर्यादादौ च । अर्यात् अ
। हनतः स्यपः अरिष्यति आरिष्यत् । गुणोर्तिसंयोगायोः । अर्तिश्च संयोगादिश्च भर्तिसंयोगादी तयोः अतिसंयोगायोः । गतावित्यस्य धातोः संयोगादेव॑दन्तस्य च ऋकारस्य गुणो भवति यकि यहि किति णादौ आशीर्यादादौ च । अनेनारतुः इति रूपं सिद्धं भवति गु. णोऽनेन तदा अर्यात् । गुणः । अर्चा । हनृतः स्यपः । अनेनास्येट् । गुणः । भ. रिपति । स्वरादेः । आरिष्यत् । सूत्रम् ।
सर्तिशास्यर्तिभ्यो को लुङि । सेरपवादः । लित्पुषादेर्ड: आरत् आरताम् आरन् । अर्तेर्वा । सेरपवादो लुङीति केचित् । आर्षीत् । स गतौ । धावादेशः । धावति । शीघ्रगतावेव धावादेशः । सरति । ससार सस्रतुःसनः। क्रादित्वात् । ससर्थ सस्त्रथुः सत्र । ससार-ससर ससृव ससृम ।
सर्तिशास्त्यतिभ्यो डो लुङि सेरपवादः । सर्तिशास्ति अर्ति एम्यो धातुम्यो उपत्ययो भवति सेरपवादः । अनेनास्य कः । दृशादेः स्वरादेः । आरत् । अः । अर्धातोर्वा स्प्रत्ययो भवति । लुङि सेरपवादः । इति केचिदाचार्या वद. न्ति । तेषां मते सेः । स्वरादेः । आषर्षीत् इति रूपं सिद्धं भवति । सृगतौ । धावादे. शः। धावति शीघगवावेव धावादेशः । तदभावे । सरति । लिट् लकारे । ससार । थपि क्रादित्वानेट् । ससर्थ । स यात् इति स्थिते सूत्रम् ।
यादादौ । ऋकारस्य रिङादेशो भवति यादादौ परस्मैपदे परे । डकारो व्यवधानार्थः । तेन ये इति न दीर्घः । स्त्रियात् सर्ता सरिष्यति असरिष्यत् । पुषादित्वातङः । असरत् असरताम् असरन् । शद्ल शातने ।
यादादौ । यादादौ (स. ए.) एकपदं सूत्रम् । आशीरर्थे यादादौ परे धातोप्रकारस्य रिस् इत्यादेशः परस्मैपदे एव । अत्रापि ड्कारो ये इति सूत्रेण विहितदीर्घनिषेधार्थः । स्त्रियात् । सर्ता । हनृतः स्यपः । सरिष्यति । असरिष्यत् । पुषादि० अनेन । शादेः । असरत् । शद्ल शातने । शीयादेशः । सूत्रम् ।
शीयादेशे आत्मनेपदं वाच्यम् । शीयते शीयेत. शीयताम् अशीयत शशाद । लोपः पचाम्। शेदतुः शेदुः। शेदिथ-श