________________
३२४
सारस्वते द्वितीयवृसौ
I
यतः । यकारस्याकारस्य च लोपो भवत्यनपि । गोपाय्यात्गुध्यात् । गोपायिता - गोपिता । ऊदितो वा । गोप्ता । गोपायिष्यति - गोपिष्यति - गोप्स्यति । अगोपायिष्यत् - अगोपि - ष्यत् - अगोप्स्यत् । अगोपायीत्-अगोपीत् । अनिटो नामिश्वतः । अग़ौप्सीत् । झसात् । आगौप्ताम् । एवं धूपू स'न्तापे । धूपायति । धूपायांचकार । धूपायामास । धूपायांबभूव । दुधूप । दीर्घोपधत्वान्न गुणः । तप सन्तापे । तपति, तपेत्, तपतु, अतपत्, । तताप-तेपतुः तेपुः । तेपिथ 1
यतः | य् च अत् च यत् तस्य यतः (ष. ए.) यकारस्य च अकारस्प अनपि विषये लोपो भवति । अनेनाकारस्य लोपः । गोपाय्यात् । आयाभावे सति गुप्यात् । अस्य धातोः ऊदितो वा अनेन सूत्रेणेविकल्पो भवति । अनपि आयप्रत्ययस्यापि विकल्पोऽस्ति । गोपायिता । गोपिता । ऊदितो वा । गोप्ता । अन्यानि रूपाणि मूले उक्तान्यतो न लिखितानि । अनिटो नामिवतः । अनेन वृद्धिर्भवति । अगौप्सीत् । समाप्तोऽयं धातुः । धूपू संतापे । भायः । अनेन सूत्रेणास्यापि आयः प्रत्ययः । दीर्घोपधत्वान्न गुणः । धूपायति । धूपायांचकार । धूपायामास । धूपा
भूव । याभावे | दुधूप | अन्यानि रूपाणि सुगमानि । तप् संतापे । पूर्ववत् तिबादयः । तपति । तपेत् । तपतु । अतपत् । अत उपधायाः । अनेन वृद्धिः । तताप । लोपः पर्चा कित्ये चास्य । अनेनैत्वपूर्वलोपौ भवतः । तेपतुः । तेषुः । तेपिथ । अत्वतो नित्यानिटः । इदं सूत्रमस्ति ।
1
अवतो नित्यानिटस्थपो वेट् । ततप्थ । तप्यात् । तप्ता । तप्स्यति । अतप्स्यत् । अताप्सीत् । क्रमु पादविक्षेपे ॥ अत्वतः । नित्यानिटो धातोः थपो वा इड् भवति । अनेनास्य वा इट् । ततप्थ । तप्यात् । तप्ता । तप्तारौ । तप्तारः । तप्स्यति । अतप्स्यत् । णित्वे | अनेन सूत्रेण सेणित्वात् अत उपधायाः अनेन सूत्रेण वृद्धिः । अताप्सीत् । झसात् । आताप्तां । अताप्सुः । क्रमु पादविक्षेपे ।
क्रमुभ्रमुत्रसित्रुटिलष्भ्राशुभ्लाशो वा यः प्रत्ययो वक्तव्यः । चतुर्षु । क्राम्यति ।
क्रमु भ्रमु त्रति त्रुटि लबू भ्रा० । एम्पो वा यः प्रत्ययो चतुर्षु लकारेषु परेषु सुगमोsस्यार्थः । द्वितीयं सूत्रम् ।