SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। ३२६ ये। (स. ए.) एकपदं सूत्रम् । अनपि पकारे परे सति पूर्वस्य स्वरस्प दी? भवति । अनेन दीर्घः । क्षीयात् । क्षेता । क्षेष्यति । अक्षेण्यत् । घातोनामिनः । अक्षेषीत् । अझैष्टाम् । अझैषुः । कटे वर्षावरणयोः। करति । लिट्लकारे कुहोचः । अत उपधायाः । अनेन वृद्धिः । चकाठ । चकटतुः । चकटुः । कथ्यात् । कटिता । कटिष्यति । अकटिष्यत् । पूर्वोक्तसूत्रैः । अकइसिइदिपिति जाते । सूत्रम् । हयन्तक्षणश्वसिजागृहसादिवर्ज सेटि सौं वृद्धिः । हसादय एकारेतः । अकटीत अकटिष्टाम् अकटिषुः । गुपू रक्षणे । हयन्ता पन्तक्षणश्वसिजाग्रहसादिवज सेटि सौ परे वृद्धिर्भवति । अत्र हसादय एकारेतो ज्ञातव्याः । अनेन वृद्धिनिषेधः । इट् ईटि । सवर्णेदीर्घः सह । अकटीत् । गुपू रक्षणे । ऊकार अदितो वा इति कार्यार्थः । सूत्रम् । आय: । गुप्धुपूविच्छिपणिपनिभ्यः स्वार्थे आय: प्रत्ययो अवति । अनपि वा । उपधाया गुणः। आयः । (म० ए०) एकपदं सूत्रम् । गुप्धूविच्छिाणिपनिम्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति । अनपि वा भवति । गुप् आय इति स्थिते । उपधाया लघोः । स्वर । गोपाय इति जाते सूत्रम् ।। स धातुः । स यङादिप्रत्ययान्तः शब्दो धातुसंज्ञो भवति । धातुत्वातिवादयः । गोपायति, गोपायेत्, गोपायतु, अगोपायत् । कासादिप्रत्ययादाम् । गोपायांचकार । गोपायामास । गोपायांबभूव । जुगोप। स धातुः । सः (म० ए०) धातुः (म० ए०) यादिभत्ययान्तः शब्दों धानुसंज्ञो भवति । सुगमम् । धातुत्वात् विबादयः । गोपाप विप इति जाते भए कर्वरि । गोपाय अप् विप् इति जाते अदे । स्वर० गोपायति । गोपायेत् । गोपायतु । अगोपायत् । गोपाय गप् इति स्थिवे कासादिप्रत्ययादाम् । अनेन सूत्रेण आम् प्रत्ययो भवति । तदा गोपाय आम कृ ण इति जावे । सवर्णेदीर्घः सह । गोपायाम् कृणपिति जाते । द्विश्च । । कुहोश्चः । धानोर्नामिनः । नश्वापदान्ते झसे। स्वरहीनं० । गोपायांचकार । गोपायामास | गोपायांबभूव । अनपि वा इत्युक्तत्वात् वा यमत्ययो भवति । आयपत्पयामाने आम्पत्ययाभावो भवति । गुप् णपिति स्थिते । द्विश्च । कुहोशुः । अनेन गकारस्प जकारो भवति । उपधाया लघोः । अनेन गुणो भवति । स्वरहीनं० । जुगोप. जुगुपतुः जुगुपुः ।' गोपाय यात् । इदि स्थिते सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy