________________
भ्वादिपक्रिया।
३१९ चवाज ववजतुः ववजुः । चवजिथ । अवाजीत् अवजीत् । व्रज गतौ । व्रजति, व्रजेत्, व्रजतु, अव्रजत् । वनाज वनजतुः वव्रजुः । व्रज्यात्, व्रजिता, व्रजिष्यति, अव्रजिष्यत् ।
शम् । शस् दद् वादिगुणभूवाकाराणां किति णबादौ परे णत्वपूर्वलापौ न वक्तव्यौ । अनेनास्यैत्वपूर्वलोपनिषेधः। किंतु 'श्रत उपधायाः अनेन सूत्रेण वृद्धिः। चवाज । ववजतुः । ववजुः । ववजिथ । वज्यात् । वजिता । वजिष्यति । अवजिण्यछ । अवाजात् । हसादेः । अवनीत् । बज् गतौ । व्रजवि । अन्यानि सुगमानि। लुङ् लकारे वृद्धिविकल्पे सूत्रम् ।।
वदिव्रज्योः सौ नित्यं वृद्धिः। अव्राजीव । अज् गतौ क्षेपणे च । अजति, अजेत, अजतु, आजत् । .
वदिव्रज्योः । वदिवज्योर्धात्वोः सौ परे नित्यं वृद्धिर्भवति । अनेनास्य वृद्धिविकल्पाभावः । अवाजीत् । अन् गतौ क्षेपणे च । अजति । अजेत् । अजतु । स्वरादेः । आजत् । अजेरार्धधातुके वी वक्तव्यः वसादौ वा । एतच्च विभक्तिचतुष्टयं सार्वधातुकं परमार्धधातुकसंझं पाणिनीयानाम् । द्वित्वम् वृद्धिः। विवाय ।
अजेरार्धधातुके । अजेर्धातोरार्धधातुके विषये वीवक्तव्यो वसादौ परे वा भवति । सार्वधातुकार्धधातुकयोर्लक्षणं मूले उकम् । अनेन वीरादेशः । वी गप् इति स्थिते द्विश्च । इस्वः । वि वी णपिति जावे धातोामिनः। अनेन सूत्रेण वृद्धिर्भवति। , स्वरहीनं० । विवाय । वि वी अनुस् इति स्थिते सूत्रम् ।
नुधातोः। विकरणस्य नोर्धातोश्चेवर्णोवर्णयोरियुवी भवतः स्वरे परे । अनेकस्वरस्यासंयोगपूर्वस्य तु स्वौ। विन्यतुः विव्युः।
नुधातोः । नुश्च धातुश्च नुधातुस्तस्य नुधातोः ( प. ए. ) स्वादेर्नुरिति स्वादेरुत्पन्नस्य नु इति विकरणस्य तथा धातोरिति । इवर्णान्तोवर्णान्तधातोः संबधिन इवर्णस्य उवर्णस्य इयुवौ भवतः । इवर्णस्य इय उवर्णस्य उत् । अत्रापि विशेषमाह । अनेकेत्यादि तु पुनः। अनेकस्वरः संयोगपूर्वरहितश्च यो धातुर्भवति वसंबन्धिनोरिवर्णोवर्णयोर्यकारवकारौ एव भवतः। एवंभूतस्य नुविकरणसंवन्धिन