SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३२० सारस्वते द्वितीयवृत्ती ' उवर्णस्यापि वत्त्वम् । तुशब्दात् कचिदेकस्वरस्यापि यकारः । यथावदंति कचिदनेकस्वरस्यापि इय् । यथा ईयतुः य्वोर्धातोः । य्वौ वा । इति सूत्रद्वयेन केवलस्य ईकारस्य च ऊकारस्य इयादिकार्यम् अत्र तु नुधावोरित्यनेन सूत्रेण सर्वत्र इवर्णस्य उ. वर्णस्य च इयादिकार्य भवति । इति विशेषः । अनेन सूत्रेणानेकस्वरस्पासंयोगपूर्वस्पास्कारस्य यकारो भवति । विव्यतुः । विव्युः । गुणः । विवयिथ । स्वरान्तानित्यानिटस्थपो वेट् । विवयिथ-विवेथ आजिथ विन्यथः विव्य । विवाय-विवय विव्यिव-आजिव विव्यिमआजिम । वीयात् । स्वरांतात् । स्वरांतात नित्यानियो धातोः थपो वा इट् भवति । अनेनास्प वेट् भवति । गुणः । विवेथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वीयात् । अज् ता इति स्थिते । अजेरार्धधातुके । अनेन वीरादेशः । तदा वी ता इति स्थिते सूत्रम् । नैकखरादनुदात्तात् । एकस्वराहातोर्धातुपाठेऽनुदात्त इत्येवं पठितादिडागमो न भवति । ; नैकस्वरादनुदात्तात्। न (अ०) एक एव स्वरो यस्य स नैकस्वरस्तस्मात् एकस्वरात् (पं. ए. ) अनुदाचात् (पं. ए.) त्रिपदं सूत्रम् । यो धातुः एकस्वरात्मकः धातुपाठेऽनुदात्त इति संज्ञकः कथितस्तस्मात् परेषां पूर्वोकानां सिसतासीस्यपाम् इडागमो न भवति । उदाचाः सेट एष्टव्याः। तथाऽनुदाचा अनिट एष्टव्याः । अनुदाचा धातवो धातुपाठात् ज्ञेयाः। अत्रानिटकारिकाऽस्ति । तस्याः श्लोकाः सन्ति । ॥अथानिदकारिकाः॥ अनिदस्वरान्तो भवतीति दृश्यतामन्यांस्तु सेटः प्रवदन्ति तद्विदः ॥ अदन्तमृदन्तमृतां च वृनौ विडीङिवर्णेष्वथ शीश्रियावपि ॥ ३॥ गणस्थमूदन्तसुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः॥ इति स्वरान्ता निपुणैः समुच्चितास्ततो हसान्तानपि सन्निबोधत ॥ २॥ शकिस्तु कान्तेध्वनिडेक इष्यते घप्तिश्च सान्तेषु वसिस्तथैवच ॥ रभिश्च । भान्तेष्वथ मैथुने यभिस्ततस्वतीयो लभिरेव नेतरे ॥३॥ यमिर्यमान्तेष्वनिडेक इण्यते रमिर्दिवादावपि पव्यते मनिः॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy