________________
सारस्वते प्रथमवृत्तौ ।
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ॥ एतमातं ङितं विद्याद्वाक्यस्मरणयोरेङिव ॥ ओत्तमैरेक्षसे न त्वमामृतादेन्द्रतोऽखिलैः ॥ आ एवं सर्ववेदार्थ एवं सहचो हरेः ॥
1
औ निपातः आ (प्र.ए.) साङ्केतिकं । औ (प्र.ए.) निपात्यते सिद्ध एव इति निपातः (म.ए.) साङ्के० । स्रो० । ननु एकस्वरश्चेति पदं सूत्रे नास्ति वृत्तौ कुतो लभ्यते तदर्थं अकारादारभ्य ओकारं यावत् ' औ' इति प्रत्याहारमङ्गीकुर्वन्ति केचित् । औ (म. ए. ) साङ्केतिकम् । आकार, ओकार, प्रकार, स्वरा अत्र निपाता एव गृह्यन्ते । 'आहू "उपसर्गवर्जः । वाक्ये स्मरणे च यो निपातरूप ' आ इति वर्णः स सन्धि न प्राप्नोति । तथा ओकारः आहो, अहो, उताहो, नो, हो, हो, अघो, भोभो इत्यादिषु निपातरूपः सोऽपि सन्धि न प्राप्नोति । हे अम्ब । हे ईश । तथा एकस्वरः एक एव स्वरः एकस्वरः यथा केवलस्वरमात्र एव न तु हसा युक्तः । यद्वा सदृशस्वरः अकारेकारोकाराणां निपातरूपाणां यः कश्चिदादौ भवति तादृश एव स्वरोऽग्रेऽपि भवति तदा सन्धि न प्राप्नोति । यथा । अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । 'अ' इति निर्भत्सने । अपेहि दूरीकुरु । 'इ' इति सम्बोधने विस्मये वा इन्द्रं पश्य । 'उ' इति सम्बोधने रोषोको वा उत्तिष्ठ । आग्रहणादादुपसर्गेण सह सन्धिर्भवति । उदाहरणं कण्ठ्यम् । तत्र आकारनिपातस्तु दिदितो द्विधा । तत्र यः स्यात् ङित् स एव सन्धि प्राप्नोति नत्वति । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ॥ एतमात हितं विद्याद्वाक्यस्मरणयोरङित् ॥ १ ॥ आ+उतमः ओत्तमः । ईषदर्थे आढन सह सन्धिः । आ + ईक्षसे एक्षसे । आ + इहि एहि । इत्यादौ क्रियायोगे आङा सह सन्धिः । अमृतात् अमृतं मर्यादीकृत्य इति मर्यादायाम् । आ + इंद्रतः एन्द्रतः । इन्द्रमभिव्याप्य इति अभिविधौ च भाडा सह सन्धिः । मर्यादा सीमा अभिविधिः अभिव्याप्तिः मर्यादा च अभिविधिश्व मर्यादा भिविधिस्तस्मिन् ।' सर्वोऽपि द्वन्द्वो विभाषयैकवचनान्तः स्यात् । तत्र ' एकत्वे द्विगुद्वन्द्वौ ' इति नपुंसकत्वम् । अनित्यमागमानुशासनमिति भावः । नामिनः स्वरे इति नुमागमो न किन्तु ङेरौहित् । तथा आ इति आक्षेपे आ एवं किल मन्यसे इति वाक्ये आ एवं ईश्वरवचनमिति स्मरणे अनाङ् आकारः सन्धि न प्राप्नोति ॥
(२८)
पुतः । हृतः संधिं न प्राप्नोति । देवदत्त ३ एहि । देवदत्त ३ अत्र गौश्वरति ॥