________________
भ्वादिभक्रिया।
३१७ इति स्थिते द्वित्वसूत्रेण अकारस्य द्विर्भावः । आम्वोदिौ । सवर्णदीर्घः । स्वरहीनं० । इन्दामास । इन्दामासतुः इन्दामासुः । इन्दामासिथ | यदा भूधातोरनुप्रयोगस्तदा इन्दाम् भू णम् इति नाते । नश्चापदा० । पुनश्च बभूव इति रूपं यथा सिद्धं भवति तथैव रूपं कार्यम् । इन्दांबभूव । इन्धात् । इन्दिता । इन्दिष्यति । स्वरादेः । ऐन्दिष्पत् । ऐन्दीत् । णिदि कुत्सायां पूर्ववत् इदितो नुम् । निन्दति । यदायं धातुः प्रपूर्वः स्यात् तदा प्रनिन्दति इति स्थिते सूत्रम् ।। निसनिक्षनिन्दामुपसर्गाण्णवं वा वाच्यम् । प्रणिन्दति, प्र निन्दति । निन्देद, निन्दतु, अनिन्दत, निनिन्द, निन्यात निन्दिष्यति, अनिन्दिष्यत्, अनिन्दीत् । निक्ष् चुम्बने । प्रणिक्षति निक्षेद निक्षतु अनिक्षत् निनिक्ष निक्ष्यात् निक्षिता निक्षिष्यति अनिक्षिष्यत् अनिक्षीन् । उख गतौ । ओखति ओखेत् ओखनु औखत् । द्वित्वे उपधागुणे च ,
कते।
निसनिक्षनिन्दाम् । निसनिक्षनिन्दा धातूनासुपसर्गात् उपसर्गस्थनिमिचात् णत्वं वा वाच्यम् । अनेन णत्वम् । मणिन्दति । मनिन्दति । निन्देत् । निन्दतु । अनिन्दत् अत्र उपधाया लघोरिति सूत्रस्य पामिरेव नास्ति । उपधायामिकाराभावात् । निनिन्द । निन्दयात् । निन्दिता । निन्दिष्यति । अनिन्दिष्यत् । अनिन्दीत् । अस्य रूपाणि मूले सन्ति तथापि लिखितानि । निश् चुम्बने । निक्षति । 'निसनिक्षनिदाम्।' अनेन सूत्रेण णत्वम्। प्रणिक्षति । अन्यानि रूपाणि सुगमत्वान्न लिखितानि | उख गतौ । गुणः । ओखति । ओखेत् । ओखतु । औखत् । अत्र स्वरादेः इत्यनेन सूत्रेण द्वितीयोऽडागमो भवति । उखू णप् इति स्थिते । द्विश्व । गुणः । उ ओख णप् इति जाते सूत्रम् । __ असवणे स्वरे० पूर्वकारोकारयोरियुवौ वक्तव्यो। उवोख । स- . • वर्णे दीः० ऊवतुः ऊखुः । उवोखिथ । उख्यात्, ओखि
ता, ओखिष्यति, ओखिष्यत्, औरवीत् । अञ्च गतिपूजनयोः। अञ्चति । नुगशाम् आनश्च आनश्चतुः आनञ्चुः ।
असवणे स्वरे । असवणे स्वरे परे सति पूर्वयोः इकारोकारयोः इयुवौ यथासंख्येन वकव्यौ । अनेन सूत्रेण उकारस्य उत् जातः । स्वरहीनं० । उवोख । असवर्णस्वराभावानोऽन् । सवर्णेदीर्घःसह । अखतुः । ऊखुः । उवौखिथ । उख्यात् ।