________________
३१६
सारस्वते द्वितीयवृत्ती विदरिद्राकासकाशजागृउष् एभ्यो वाम् । विद् ज्ञाने। दरिद्रा दुर्गतौ काश विकचने। जागृ निद्राक्षये। उष दाहे । एते विदायः । इन्दां क णप् इति स्थिते कइत्येतस्य द्वित्वम् । विद् दरिद्रा । विद् दरिद्राकाम् काश् जाय उष एभ्यो वाम् मत्ययो भवति । इन्द आम् कृणपिति जाते । स्वरहीन। इन्दाम् कृ णपिति जाते द्विश्च | कृइत्यस्य द्वित्व । इन्दाम् कृ कृणपिति जाते सूत्रम् ।
। पूर्वसंबन्धिन ऋकारस्याकारो भवति । चुत्वम् । रः। ऋ (१० ए०) सांकेविकं । अः (म० ए०) । द्विपदं सूत्रम् । द्वित्वे कृते सति पूर्वसंबन्धिन ऋकारस्य अकारादेशो भवति । अनेन प्रकारस्याकारः। तदा इन्दाम् क क णप् इतिनाते । कुहोश्चः । अनेन सूत्रेण फकारस्य चकारः। तदा इन्दाम् च कृ णप् इति स्थिते सूत्रम् ।
धातोर्नामिनः । धातोरन्त्यभूतस्य नामिनो वृद्धिर्भवति जिति णिति च परो इन्दांचकार इन्दांचक्रतुः। इन्दाचक्रुः। क्रादित्वान्नेट् । इन्दांचकर्थ इन्दांचक्रथुः इन्दांचक्रा इन्दांचकार-इन्दांचकर इन्दांचव इन्दांचकम । इन्दामास इन्दामासतुः इन्दामासुः । इन्दामासिथ । इन्दांबभुव, इन्द्यात्, इन्दिता, इन्दिष्यति । स्वरादेः । ऐन्दिष्यत्, ऐन्दीत् ऐन्दिष्टाम् ऐन्दिषुः । ऐन्दीः ऐन्दिष्टम् ऐन्दिष्ट । ऐन्दिषम् ऐन्दिष्ट ऐन्दिष्म । णिदि कुत्सायाम् । निन्दति ।
धातो मिनः । धातोः (प० ए०) नामिनः (प० ए० ) द्विपदं सूत्रम् । धातोः अन्त्यभूतस्य नामिनः निति णिति च प्रत्यये परे वृद्धिर्भवति । अनेन वृद्धिस्तदा इन्दाम् च कू आर ण' इति जाते । नश्चापदान्ते । स्वरहीनं० । तदा इन्दा चकार इति रूपं सिद्धं भवति । एवमन्यान्यपि रूपाणि सिध्यन्ति । किति णादी गुणवृद्धी न भवतः । किं तु र इत्यस्य सूत्रस्य प्राप्तिः । इन्दांचकार । इन्द्राचक्रतुः । इन्दांचकः । कादेर्णादेः इति सूत्रे कृधातोरिनिषेधात् इडागमो न भवति पित्त्वात् गुणो भवति । इन्दांचकर्ष । इन्दांचक्रधुः । इन्दांचक इन्दांचकार । णत्रुत्तमः । इति सूत्रेण वा णित् तेन वा वृद्धिर्भवति । इन्दांचकर । इत्यत्र गुणो भवत्यव वा । इन्दांचव इन्दांचकृम । यदा अस्थातारनुप्रयोगरतदा इन्दाम् अस गपू