________________
. भ्वादिप्रक्रिया। गद । गद्यात्, गदिता, गदिष्यति, अगदिष्यत् । अगादीत्अगदीत् । रद् विलेखने । रदति, रदेन् , रदतु, अरदन, रराद।
उपसर्गस्थनिमित्तात्।उपसर्गस्थनिमित्तात् नेर्गदादौ णत्वंवाच्यं गदादयस्तु मूले उक्ताः सन्ति । तएव ज्ञातव्याः । आतोनेन सूत्रेण नकारस्यणकारोभवति । पणिगदति । गदेत् । गदतु । अगदत् । कुहोश्चः। अनेन गकारस्य जकारः। अतउपधायाः। जगाद । जगदतुः । जगदुः ॥ गद्यात् । गदिता । गदिष्यति । अगदिष्यत् । अगादीत् । हसादेः । अगदीत् । रद् विलेखने । रति । रदेत् । रदतु । अरदत् । ररा द । रद् अतुस् इति स्थिते सूत्रम् ।
लोपः पचां कित्ये चास्य । पचादीनामनादेशादीनां किति णादौ सति पूर्वस्य लोपः । असंयुक्तहसयोर्मध्यस्थस्याकारस्यैकारः । रेदतुः रदुः।
लोपः पचां कित्ये चास्य लोपः (म. ए.) पर्चा (प.ब) किति (स. ए.)ए (प्र. ' ए.) च (म.ए.) अस्य (प.ए.) षट्पदमिदं सूत्रम् । येषां धातूनां द्विवचनस्य कुहोश्शुः झपानां जबचपाइति जबादिरादेशो न भवति तेषां पचादीनां पच्सदृशानां पत् पद् चल् चर वन् मन् इत्यादीनां पूर्वस्य द्वित्वस्य किति णादौ सति लोपो भवति । एक एव इसो यस्य सः । यद्वा एकश्च एकश्च एको एकौ असंयुक्तो केवलौ संयोगरहितौ पू. पिरौ हसौ यस्य स एकहसस्तस्य एकहसस्य । असंयुक्तहसमध्यस्थस्याकारस्य च एकारो भवति । मूले तु न संयुक्तो असंयुक्तो असंयुकौ च तो हसौ च असंयुक्तहसौ तयोरसंयुक्तहसयोः । पूर्व व्याख्यानं चन्द्रिकानुसारेण । इदं तु मूलानुसारेण । चकारात् उक्तनिमित्ताभावेऽपि तु फल् भज् त्रए सध् ग्रन्थम्भानामेत्वपूर्वलोपौ भवतः। तथा जुषु भ्रम् त्रस् फण् राज् भ्राश् भ्राज् भ्लाश् खन् राध् एतेषां विकल्पेन एत्वपूर्वलोपौ भवतः । इति सूत्रम् । अनेन पूर्वरकारस्य लोपश्च धातोरकारस्यैकारो भवति । स्वरहीनं० । रेदतुः । रेदुः । ररद् थप इति स्थिते सिसता० अनेनेट् । ररद् थप् इति जाते।
सेटि थपि एत्वपूर्वलोपौ वक्तव्यौ । रेदिय रेदथुः रेद । रराद-ररद रोदिव रेदिम । स्यात्, रदिता, रदिष्यति, अरदिष्यव । अरादीन अरादिष्टाम् अरादिषुः । अरदीत् । णद् अव्यक्ते शब्दे । आदेः ष्णः स्नः । नदति, नदेव, नदतु, अ