________________
भ्वादिप्रक्रिया! . . ३११ सूत्रम् । दधाति वर्जयित्वा झमान्तात् धातोः परयोस्तकारथकारयोर्धकारादेशो भचति । सुगममिदं सूत्रम् । अस्याधिकं व्याख्यानं नास्ति । अनेन तकारस्य धकारः । झबे जवाः । प्रथमधकारस्य दकारः । स्वरहीनं । गुणः । सेद्धा । सेद्धारौ । सेद्धारः। सेद्धासि । सेद्धास्थः । सेद्धास्थ सेद्धास्मि । सैद्धास्वः । सेद्धास्मः । लट् । सेधिष्यति । सेत्स्यति । 'खसेचपाझसानां । लङ् । असधिण्यत् । असेत्स्यत् । लुङ् । असेधीत् । असेधिष्टाम् । असेधिषुः । इडभावे अ सि सि ईद दिप इति स्थिते सूत्रम् ।
अनिटो नामिवतः। नामिवतोऽनिटो धातोः परस्मैपदे परे सिप्रत्यये वृद्धिर्भवति । वपत्वम् । सेः। असैत्सीत असैद्वाम् । प्रत्ययलोपे प्रत्ययलक्षणं कार्यं भवति। .
अनिटो नामिवतः। भनियो नामिवतः । नास्ति इट् यस्य सः अनिट् तस्यानिटः (प.ए.) नामी अस्यास्ति इति नामिवान् तस्य नामिवतः (प.ए.) द्विपदं सूत्रम् । 'नामिवतो नाम्पुपधस्य नैकस्वरादनुदाचात् इति सूत्रेणोचात् अनिटो धातोः संबन्धिनो नामिनः परस्मैपदविषये सिमत्यये परे वृद्धिर्भवति । अनेन वृद्धिः । परं पूर्ववत् । खसे। असत्सीत् असै सिताम् इति स्थिते । सूत्रम् ।।
झसाद । झसादुत्तरस्य सेोपो भवति झसे परे। असैत्सुः । असत्सीः असैद्धम् असैद्ध । असत्सम् असत्स्व असैत्स्म । खद स्थैर्येहिंसायां च । वदति, खदेव, खदतु, अखदत् । झसात् । (पं. ए.) एकपदं सूत्रम् । झसादुत्वरस्य सेर्लोपो झसे परे भवति । अनेन सेर्लोपः कार्यः। प्रत्ययलोपे प्रत्ययलक्षणं कार्य भवति । इति न्यायात् । वृद्धिर्भवति । तयोर्धः । झबे जबाः । स्वरहीनं । असैद्धाम् । असत्सुः । असत्सीः । असैद्ध । असैद्ध । असत्सम् । असैत्स्व । असत्स्म । खद् स्थैर्य हिंसायां च । पूर्ववत् तिवादयः । खदति । खदेत् । खदतु । अखदत् । खद् खद् ण' इति स्थिते पूर्वस्य हसादिः शेषः। खखद् पबिति नाते सूत्रम् ।
अत उपधायाः। धातोरुपधाया अकास्स्य वृद्धिर्भवति जिति णिति च परे । चुत्वम् । चखाद चखदनुः चखदुः । चरख- . दिथ चखदथुः चरवाद ।
अत उपाधायाः। अतः (ष. ए.) उपधायाः (प. ए.) धातोरुपधाया अकारस्य वृद्धिर्भवति मिति णिति च परे । कुहोश्शुः । चखाद । चखदतुः चखदुः घसदिय । चखदथुः चखद ।