________________
३१०
सारस्वते द्वितीपवृत्तौ
कारस्य षकारनिमित्तानि कवर्गेल्लक्षणानि । नकारस्य णत्वनिमित्तानि पकाररेफवर्णाः । अवप्रत्याहारकवर्ग पवर्गव्यवधानानि च ततो ययुपसर्गान्ते कवर्गस्पेतत्याहारस्य च योगो भवति । तदा तस्मात्परस्य सकारस्य पकारो भवति । यदा चोपसर्गे षकाररेफऋवर्णानामन्यतमो भवति नकारस्य वा मत्याहारकवर्गपवर्गान्तरं च भवति तदा नकारस्य णकारो भवति । अत्रोपसर्गे इत्प्रत्याहारोऽस्ति तेन सेधतेः सकारस्य षकारों भवति । निषेधति । लिङ् । सेधेत् । लोट् । सेधतु । लहू । अड़व्यवधानेऽपि षत्वं भवति न्यषेधत् । इति प्रयोगदर्शनात् । यदा निपूर्वस्तदा न्यपेधत् । तदभावे असेधत् । लिट् । द्वित्वव्यवधानेऽपि षत्वं नास्ति व्याख्यानेन प्रयोजनं तदभावेऽपि प्रयोगसिद्धेः । निषिषेध । निपूर्वेसति । तदभावे सिषेध । लिङ् । सिध्यात् । लुट् । सेधिता । लृट् । सेधिष्यति । लङ् । असेधिष्यत् । लुङ् । असेधीत् । समाप्तोऽयं धातुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इविकल्पार्थः । आदेः ष्णः स्त्रः । पूर्ववत् तिबादयः । सेधति । सेधेत् । सेधतु | असेधत् । लिट् । सिषेध | सिध्यात् । सिधू ता इति स्थिते सूत्रम् ।
ऊदितो वा । ऊदितो धातोः परस्य वसादेरिड्डा भवति । ऊदितो वा । ऊत् इत् यस्य स ऊदित् तस्मात् ऊदितः (पं. ए.) वा ऊदितो धातोः परस्य वसादेः प्रत्ययस्य वा इडागमो भवति । द्वितीयं सूत्रम् । स्वस्रुतिसूयतिधुञ्चधादीनामिड्डा वक्तव्यः । स्व शब्दे । षूङ् प्राणिगर्भविमोचने । षूङ् प्रसवे । धूञ् कम्पने । रधू हिंसायाम् । नश् अदर्शने । तृप् प्रीणने । तृप् हर्षविमोचनयोः । दुइ जिघांसायाम् । मुहू वैचित्ये । ष्गुड् उद्विरणे । स्निह् प्रीतौ । एते रधादयः । सेधिता । पक्षे ।
1
स्वसति ० । स्वसूतिरूपतिधूञइत्यादीनां धातूनां वा इडागमो वक्तव्यः । वसादेः प्रत्ययस्यैवेति शेषः । धातवस्तु मूले दर्शिताः । अनेन सूत्रेण वा इट् । सेविता ! सिधू ता इति स्थिते । सूत्रम् ।
तथोर्धः । दधाति विना झभान्ताद्धातोः परयोस्तकार थकारयोर्धकारादेशो भवति । झबे जबाः । सेद्धा, सेधिष्यति-सेत्स्यति । असेधिष्यत् असेत्स्यत् । असेधीत् । असेधिष्टाम् असेधिषुः । इडभावे ।
तथोर्धः । तच च तथौ तयोः तथोः (प.द्वि.) धः (प्र. ए. ) द्विपदं