SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया | नकारजावनुस्वारपञ्चमौ झलि धातुषु ॥ सकारजः शकारश्व षाट्टवर्गस्तवर्गजः ॥ १ ॥ ૨૦૧ आदेः ष्णः स्र: । आदेः (ष. ए.) ष्णः (ष. ए.) नः (प्र. ए.) ब उपदेशे यस्य स षोपदेशः । ण उपदेशे यस्य स गोपदेशः । षोपदेशस्य नोपदेशस्य च धातोरादौ वर्त्तमानयोः षकारणकारयोः सकारनकारौ भवतः । यथासंख्यम् । षोपदेशस्य णोपदेशस्य च धातोर्लक्षणं मूलोक्तमेव ज्ञेयम् । अस्यां विस्तरभयात् न लिखितम् । तथा च षत्वनिषेधकं सूत्रम् । नामधातुष्टयैष्वष्कष्टिवां षः सो नेति वाच्यम् । गुणः । सेधति । निपूर्वः । नामधातुरिति । नामधातुष्ठचैष्वष्कष्टिवां ( ष. ब. ) षकारस्य सकारो न भवति इति वाच्यम् । गुणः । लट् । सेधति । यदा निपूर्वोऽयं धातुः स्यात् तदा कीदृशं रूपं कार्यम् । तदर्थं सूत्रम् । प्रादेश्व तथा तौ सुनमाम् । प्रादेरुपसर्गात्परेषां स्वादीनां नमादीनां च धातूनां सकारनकारयोस्तौ पूर्वभाविनावेव षकारणकारौ भवतः षत्वणत्वनिमित्ते सति । निषेधति । सेवेत् सेतु । अव्यवधानेऽपि षत्वम् । न्यषेधत् । द्वित्वव्यवधानेऽपि षत्वम् । निषिषेध । सिषिधतुः । सिषिधुः । सिषेधिथ । सिध्यात्, सेधिता, सेधिष्यति, असेधिष्यत् । असेधीत्, असेधिष्टाम्, असेधिषुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इडिकल्पार्थः । सेधति, सेधेत्, सेधतु, असेधत्, सिषेध, सिध्यात् । प्रादेश्व तथा तौ सुनमाम् । म आदिर्यस्य स प्रादिः तस्य प्रादेः (पं. ए.) च तथा तौ (प्र.द्वि.) सुनम ( ष.ब.) पञ्चपदं सूत्रम् । प्रादेरुपसर्गात्परेषां स्वादीनां षुञ् अभिषवे, षोऽन्तकर्मणि, टुञ् स्तुतौ, टुभ् स्तोमे, षिङ् बन्धने, षजि संगे, ष्वज् परिष्वंगे, इत्यादीनां नमादीनां च णम् मह्वीभावे, णीञ् प्रापणे, टुणदि समृद्धौ, णिदिकुत्सायाम्, इत्यादीनां धातूनां यौ सकारनकारौ तयोः क्रमेण तौ पूर्वभाविनौ एव पूर्वावस्थायां वर्त्तमानौ षकारणकारौ एव भवतः । तथा तेष्वेवेत्यादि । तथेति सूत्रोक्तं पदं तस्यार्थः । तेष्वेव निमित्तेष्विति । अत्रायं भावः । स
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy