________________
३०८ .
सारस्वते द्वितीयवृत्ती इदितो नलोपाभावो वाच्यः । कुन्थ्यात्, कुन्थिता, कुन्धिष्यति, अकुन्थिष्यत् । अकुन्धीत् अकुन्थिष्टाम् अकुन्धिषुः। विधु गत्यांम् । उकार उच्चारणार्थः ।
वार्चिकम् इदितः । इदितो धावोः किति किति च परे नलोपस्यामावो वाच्यः । कुन्थ्यात् । लघूपधत्वाभावात् गुणाभावो भवति । लुट् । कुन्धिता । लट् । कुन्थिष्यति । लङ् । अकुन्थिष्यत् । लुङ् । अकुन्थीत्। पुथि लुथि मथि इति प्रयाणां धातूनां सुगमत्वादूपाणि न लिखितानि । षिधु गत्याम् । उकार उचारणा. थः । सूत्रम् । । आदेः ष्णः नः । षोपदेशस्य णोपदेशस्य च धातोरादौ वर्तमानयोः षकारणकारयोः सकारनकारौ भवतः । सेक्सृप्सृस्तृसृजस्तृस्त्यांन्ये दन्त्याजन्तसादयः॥ एकाचः षोपदेशाः वस्तिद्स्वस्वञ्जस्वपस्मिङः । सेक गतौ। सृष्ट गतौ । सृ गतौ ।स्तृ आच्छादने। सृज् विस गें।स्तृ छादेन । स्त्यै ष्टयै शब्दसंघातयोः। एभ्योऽन्ये दन्त्याजन्तसादयः।एकोचः षोपदेशा दन्त्याजन्तसादयः। दन्ते भवः दन्त्यः दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ यस्य सदन्त्या जन्तः स चासौ सश्च दन्त्याजन्तसः स आदिर्येषां ते दन्त्याजन्तसादयः । दन्त्यः केवलदन्त्यः न तु दन्तोष्ठजोऽपि । वष्कादीनां प्रथग्ग्रहणात् । ष्वक् गतौ । त्रिविदा गात्रप्रक्षरणे । स्वद् आस्वादने । स्व परिष्वङ्गे । जिष्वप्शये। स्मिङ् ईषद्धसने । एते षोपदेशाः । णोपदेशास्त्वनर्दनाटिनाथनाध्नन्दननुनतः ॥ नई गतौ । नट नर्तने । नानाध् याच्ञोपतांपैश्वर्याशीप्यु। टुनदि समृद्धौ । नक्क् नाशने । नृ नये । नृती गात्रविक्षेपे । एभ्योऽन्ये णोपदेशाः।