________________
३०४
सारस्वते द्वितीयबचौ सेः। (पं० ए०) सिशब्दात् परयोदिस्योरीडागमो भवति । भमेनेष्ट तदा चित् इट् सि ईट् दिए इति जातम् । तत्र सूत्रम् । इट ईटि । इटः (पं.ए.) ईटि (स. ए.) इट उत्तरस्य सेरीटि परे लोपो भवति । इति दिस्योंविषये सिलोपः। अनेन सूत्रेण सिलोपः कार्यः । तदा चित् इद् ईट् दिए इति जाते । टकारः । दि सि मि ! पकारः । तदा चित् इ ई द् इति स्थिते गुणः । सवर्णे । स्वरहीनं० । दिबादावट् । वावसाने । एभिः पूर्वोक्तः सूत्रैः । अचेतीत् इति रूपं सिद्धं भवति । अचेतीत् । अवेतिष्टां । अचेति सि अन् इति स्थिते सूत्रम् ।
स्याविदः । सेराकारान्ताद्विदश्चोत्तरस्यान उस् भवति । अचेतिषुः । अचेतीः अचेतिष्टम् अचेतिष्ट । अचेतिषम् अ. चेतिष्व अचेतिष्म । च्युति आसेचने इरनुबन्ध इरितो वेति विशेषणार्थः । उच्चरितप्रध्वंसो ह्यनुबन्धः । च्योतति, च्योतत्, च्योततु, अच्योतत् । च्युत् णप.द्वित्वम् ।
स्याविदः । (पं० ए० ) एकपदं सूत्रम् । सेः भूतार्थोत्पन्नात् आकारान्तात् दा इत्यादेः विद्ज्ञाने इत्यस्माद्धातोश्च परस्य अन उस् भवति । अनेनान उस् जातः । स्वरहीनं० । सोर्विसर्गः । अचेतिषुः । अचेतीः । अचेतिष्टं । अचेतिष्ट । अचैतिषम् । अचेतिष्व । अचेतिष्म । समाप्ति प्राप्तोऽयं धातुः । च्युतिर आसेचने इह अनुबन्धोऽस्ति इरितो वा इति सूत्रस्य विशेषणार्थः । उच्चरितमध्वस्तोानुबन्धो भवति । पूर्ववत् तिबादयः । उपधाया लघोः । अनेन गुणः । लट् । च्योति । च्योततःच्योवन्ति । लिङ् । च्योतेत् । च्योतेतां । च्योतेयुः । लोट् । च्योवतु । च्योततात् । च्योततां । च्योतन्तु । ल । अच्योवत् । अच्योतताम् । अच्योतन् । सुगमत्वात् । एतेषां विवेचनं न कृतम् । लिट् । च्युत् णप् इति स्थिते । द्विश्च । च्युत् च्युत् णः इति जाते सूत्रम् ।
पूर्वस्य हसादिः शेषः । पूर्वस्यादिर्हसः शिष्यते अन्यो लुप्यते । चुच्योत चुच्युततुः चुच्युतः । चुच्योतिथ चुच्युतः चुच्युत । चुच्योत चुच्युतिव चुच्युतिम । च्युत्यात् च्योतिता च्योतिष्यति अच्योतिष्यत् । अच्योतीव अच्योतिष्टाम अच्योतिषुः । अच्योतीः अच्योतिष्टं अच्योतिष्ट । अयोनिपम् अच्योतिष्व अच्योतिष्म ।