SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३०२ सारस्वते द्वितीयवृत्ती षांचिदाचार्याणां मतेन सकारस्य दकारो भवति । स्वरहीनं । अभविध्वं । अभविषि अभविष्वहि अभविष्महि । इत्यात्मनेपदिनो रूपाणि । देवदत्तो राज्यमभविटेत्युदाहरणम् । सूत्रम् । - माडि लुरेव वक्तव्यः। सर्वलकारापवादः । माडि । माकि प्रयुज्यमाने लुङ्लकार एव वक्तव्यः । सर्वलकारापवादो भवति । मेटः । माशब्दे प्रयुज्यमाने अटो लोपो भवति । मा हयभक्तो भवान् भूत् । मेटः । इदं सूत्रमस्ति । मे ( स० ए० ) अटः । (१० ए०) द्विपदं सूत्रम् | निषेधार्थमाशब्दे प्रयुज्यमाने दिवादिनिमित्तात्पन्नस्याटोऽडागमस्य लोपो भवति । अनेन सूत्रेणाटो लोपो भवति । मा हर्यभक्तो भवान् भूत् । इत्यादिभयोगसिद्धिः । स्मयोगे भूतार्थता वक्तव्या। स्मयोगे भूवार्थता वक्तव्या । स्पष्टमिदं सूत्रम् । द्वितीयं सूत्रम् । मास्मयोगे लङ्च । मास्मभवत् । मास्मभूत् । चिती संज्ञाने । इकार इदित्कार्यार्थः । पूर्ववत्तिबादयः । अप् कर्तरि । मास्मयोगे लङ् च । स्पष्टम् । च पुनः मास्मइत्येतयोः द्वयोः योगे लट्लकारो भवतीत्यर्थः । मा स्म भवत् । इत्युदाहरणम् द्वितीयसूत्रस्य । मा स्म भूत् । इत्युदाहरणं प्रथमसूत्रस्यास्ति इतिभू सत्तायाम् इत्यस्य भूमाप्तौ इत्यस्य च रूपाणि दर्शितानि । तत्र भूधातुः परस्मैपदी ज्ञातव्यः । परतोऽन्यत् इति सूत्रात् । सूधातुरात्मनेपदी ज्ञातव्यः ङित्त्वात् । परस्मैपदिनः परस्मैपदानि भवन्ति । आत्मनेपदिन आत्मनेपदानि भवन्तीति ज्ञातव्यम् । अत्र बहुस्थले संधिर्न कृतः । बालानां सुखेन बोधकरत्वात् । समाप्तोऽयं दशमो लकारो लुङ् ॥ १० ॥ इति द्वयोर्यात्वो. रूपाणि ॥ अथभ्वादिगणः प्रारभ्यते । तत्रादौ परस्मैपदमक्रिया कथ्यते । चिती संज्ञाने । ईकार इदित्कार्यार्थः । पूर्ववत् तिवादयो भवन्ति । अप कर्तरि । अनेनाप् । चित् अप् तिप् इति जाते सूत्रम् । उपधाया लघोः। धातोरुपधाया लघोर्नामिनो गुणो भव. ति । चेतति चेततः चेतन्ति । १। चेतत् चेतेताम् चेतेयुः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy