________________
भ्वादिप्रक्रिया। निमित्त । तेन गुणेड्वृद्धयो न भवन्ति । अभूत् । अभूतां । बहुवचने अभू अन् इति . स्थिते । सूत्रम् ।
भुवः सिलोपे स्वरे वुवक्तव्यः। अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । अभूदृष्टिः । आत्मनेपदे । सिः इद् गुणावौ षत्वं ष्टुत्वं अट् । अभविष्ट अभविषाताम् ।
भुवः (पं० ए०) भूधातोः सिलोपे कृते सति स्वरे परे अमि अनि च तुगागमो भवति । ककारो गुणपतिषेधार्थः । स्थाननियमार्थश्च । उकार उच्चारणार्थः । इति अनि वकारागमः । स्वरहीनं० । अभूवन् । अभूः | अभूतम् । अभूत । अभूव । अभूव । अभूम । इति परस्मैपदिनो भूधातो रूपाणि । अभूत् दृष्टिरित्युदाहरणम् । अथात्मनेपदिनो भूधातो रूपाणि कथ्यन्ते । आत्मनेपदे सिः इट् गुणावौ षत्वं टुत्वं अट् एवे भवन्ति । अविष्ट । अविषावां । अभविष् अन्तइति स्थिते । सूत्रम् ।
आतोऽन्तोऽदनतः। आत आत्मनेपदस्यान्त इत्येतस्याद्भवति । अकारादुत्तरस्य न भवति । अभविषत । अभविष्ठाः अभविषाथाम्।
आतोन्तोदनतः। आतः (प.ए) अंतः (म.ए.) अत् (म.ए.) अत् अकारः न अत् अनत् तस्मात् अनतः (पं.ए.) आचे पदद्वयेऽतोत्युः । उओ। एदो । तृतीये चपा अबेजबाः। चतुःपदं सूत्रम् । आत्मनेपदसंबन्धिनः प्रथमपुरुषबहुवचनस्य अन्ते इत्यस्यात् भवति । अन्ते इत्यस्याते इति भवति । अन्ताम् इत्यस्याताम् अन्त इत्यस्पातो भवतीति भावः। परम् अकारादुत्तरस्य न भवति । अनेनान्ते इत्यस्याते कृते स्वरहीनं । अभविषत । अभविष्ठाः । अभविषायां । अभविस् ध्वम् । इति स्थिते सूत्रम् ।
ध्वे च सेर्लोपः। ध्वे परे सेोपो भवति । वा सस्य द इति केचित् । अभविध्वम्-अभविद्वम् । अभाविषि अभविष्वहि। अभविष्महि । देवदत्तो राज्यमभविष्ट ।
ध्वे च सेर्लोपः। वे (स. ए.) च अव्ययं । सेः (प. ए.) लोपः (म. ए.) म्वे परे सति सेर्लोपो भवति । अभविध्वं । वा सस्य दकारो भवति । इति केचित्के