SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ३०० सारस्वते द्वितीयवृत्ती , सूत्रेणावं ।' किलात् ' इति सूत्रेण सकारस्य षकारः । 'वावसाने' अनेन तकारस्य दकारो भवति । 'दिबादावट् ' इति सूत्रेणाडागमो भवति । स्वरहीनं० । अभविष्यत् । अभविष्यतां । अभविष्यन् ।' अदे' इति सूत्रेणाकारस्य लोपः कार्यः प्रथमपुरुषस्य बहुवचने । अभविष्यः । अभविष्यतं । अभविष्यत । अदे | अभविष्यं । व्मोरा । अभविष्याव | अभविष्याम । अथोदाहरणम् । यदि सुवृष्टिः सुराज्यं च अभविष्यत् तदा सुभिक्षमभविष्यत् । इति परस्मैपदिनो भूधातो रूपाणि । अथात्मनेपदिनो भू धातो रूपाणि कथ्यन्ते । तेषामनेनैव सूत्रेण सिद्धिः । अभविष्यत अभविष्येतां अभविष्यन्त । अभविष्यथाः अभविष्येथां अभविष्यध्वं । अभविष्ये अभविष्यावहि अभविष्यामहि । यद्यभविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत् । समाप्तिं गतो नवमोऽयं लट्लकारः । अस्येतराण्युदाहरणानि दर्शितानि विस्तरभयात् । अथ दशमो लकारः प्रारभ्यते । सूत्रम् । भूते सिः । धातोर्भूतमात्रे काले सिः प्रत्ययो भवति । दिबादिपरः । अस्य संज्ञा लुङ् । इकारः सेरिति विशेषणार्थः । अभूस् त् इति स्थिते । भूते ( स. ए. ) सिः । (म. ए. ) धातोर्भूतमात्रे तत्कालोत्पश्रमात्रे अतीते कालेऽर्थे सिप्रत्ययो भवति दिबादौ परे । इकारः सेरितिविशेषणार्थः । अस्य पाणिनीयानां मते लुङ् इति संज्ञा । भू दिप इति स्थिते । भूते सिः । अनेन सूत्रेण सिप्रत्ययः । इकारः सेः । दिबादावट् । अनेनाडागमः । वावसाने । अनेन दकारस्य तकारः । पूर्वोक्तसूत्रैः अभूस् त् इति जातम् । तत्र सूत्रम् । दादेः पे । परस्मैपदे परे अपित् । दाधास्येण भूपिबतिभ्यः परस्य सेर्लोपो भवति । दादे: ( पं. ए.) पे (स. ए, ) अपित् दा धा स्था इण् भू पा पाने इत्येतेभ्यः परस्य भूतार्थस्य सेर्लोपो भवति परस्मैपदविषये । द्वितीयं सूत्रम् । शाच्छासाघ्राधेटो वेति वक्तव्यम् । भुवः सिलोपो लुग्वाच्यः । लुकि न तन्निमित्तम् । लुकि सति तन्निमित्तं कार्यै न स्यात् । तेन गुणेड्वृद्धयो न । अभूत् अभूताम् । शाच्छेति । शाच्छासाघा धेट्भ्यो धातुभ्यः सिलोपो वा भवति इति वक्तव्यम् | भुवः (ष.ए.) इदं सूत्रमस्ति । भूधातोः सिलोपो लुगू वाच्यः । लुकि न त
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy