SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृतौ आशिषि । धातोराशिषि यादादयो भवन्ति । एषां संज्ञा लिङ् ॥ २९६ ॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । यात् यास् यासम् यास्ताम् यास्तम् यास्व ॥ आत्मनेपदानि ॥ सीयास्ताम् सीयास्थाम् यासुस् यास्त यास्म सीरन सीध्वम् सीमहि सीष्ट सीष्ठास् ३ सीय सीवहि आशिषि । (स० ए०) अग्रे यादादीन्यष्टादश पदानि प्रथमैकवचनान्तानि साङ्केतिकानि । एकोनविंशतिपदं सूत्रम् ॥ धातोः केवलायामाशिषि अप्राप्तमार्थनालक्षणायां परस्पेष्टार्थशंसनलक्षणायां वाच्यमानायां यादादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । पाणिनीयानां मते एर्षा संज्ञा लिङ् | भूधातोः परस्मैपदित्वात् नव यादादयः प्रत्यया भवन्ति । सूत्रम् । आशीर्वादादेः पं किदिति वक्तव्यम् । ततो गुणाभावः । भूयात् भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व भूयास्म । सश्रीमान् भूयात् । भू सीष्ट इति स्थिते ॥ आशीर्वादादेरिति ॥ आशीर्वादादेः पं परस्मैपदं कित् भवति इति वक्तव्पम् कित्त्वात् गुणाभावः । भूयात् । भूयास्तां । भूयासुः । भूयाः । भूयास्तं । भूयास्त । भूयासं । भूयास्व । भूयास्म || स पुरुषः श्रीमान् लक्ष्मीवान् भूयात् । इत्युदाहरणमूं । एवं तौ श्रीमन्तौ भूयास्तां । ते श्रीमन्तो भूयासुः ॥ भू प्राप्तौ इति धातोरात्मनेपदित्वात् सीष्टादयो नव प्रत्यया भवन्ति । भू सीष्ट इति स्थिते । गुणः । भोतीष्ट इति जाते । सूत्रम् । सिसतासीस्यपामिट् । धातोः परेषां सि स तासी स्यपू इत्येतेषामिडागमो भवति । गुणावादेशौ । पत्वम् । भविषीष्ठ
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy