________________
सारस्वते द्वितीयवृत्ती सस्वरादिरिद्विः ॥ त्रिपदं स्त्रम् । सस्वरः अद्विरुक्तः पाचावयवः निर्भवति भू भू अ इतिस्थिते ॥ सूत्रम् ॥
आभ्वोर्णादौ । आ अश्च भूश्च आभ्वौ तयोः पूर्वस्याकारस्य भूशब्दस्य च आकारो भवति णादौ सति हस्वः । पूर्वसंबन्धिनो दीर्घस्य हस्वो भवति ।
आभ्वोर्णादौ ॥ आ (म. १)आश्च भूश्च आभ्वौ तयोः आभ्वोः (प. दि.) णादिर्यस्यासौणादिः तस्मिन् णादौ ( स० ए०) आदौ सवर्णे दीर्घः सह । द्वितीथे। नामिनो रः ॥ त्रिपदं सूत्रम् । णादौ परे द्वित्वे कृते सति पूर्वस्य द्विरुक्तरूपस्य अकारस्य तथा भूधातुसंबन्धिन ऊकारस्य च आकारादेशो भवति । यधप्यासेत्यादो आकारकरणं विनैव सिद्धिस्तथापि व्यानशे आनल आनर्च इत्यादिसिद्धयर्थमकारत्वमिति पूर्वस्य भू इत्येतस्य मा || भा भू अ इति जाते ॥ सूत्रम् । इस्वः (म० ए०) एकपदं । पूर्वसंबन्धिनः दीर्घस्य हस्वो भवति । अनेन पूर्वस्य इस्वः ।
झपानां जबचपाः। पूर्वसंबन्धिनां झपानांजबाश्चपाश्च भवन्ति । झढधपक्षानां जडदगबा भवन्ति । खपछठयानां चटतकपा भवन्ति ।
झपानां जबचपाः ॥ झपाना (ष० ब०) जबाश्च चपाश्च जबचपाः (म. ब०) पूर्वसंबन्धिनां झपानां जबाः चपा भवन्ति । झडदघमानां जडदगबा भवन्ति खफछठथानां कपचटता भवन्ति इत्यनेन सूत्रेण भकारस्य बकारो जातः । पुनश्च बभू अ इति जाते । सूत्रम् ।।
भुवो वुक् । भुवो वुगागमो भवति णादौ स्वरे परे । बभूव बभूवतुः बभूवुः॥
भुवः (१० ए०) बुक् । ( म० ए०) भूधातोः णवादौ स्वरे परे युगागमो भवति कित्त्वादन्ते उकार उच्चारणार्थः बुग्विधानसामर्थ्यादेवं गुणवृद्धी न भवतः । स्वरहीनं० । बभूव । बभूवतुः । बभूवुः । बभूव थ इति स्थिते सूत्रम् । कादेणीदेः। डुकृञ् करणे । सृ गतौ । डुभृञ् धारणपोपणयोः । वृञ् संवरणे । द्रु गतौ । श्रु श्रवणे । स्नु प्रनवने । ष्टुञ् स्तुतौ । कसृभृवृद्रुश्रुस्त्रुस्तु इत्येतस्मात्परस्य वसादेर्णादेर्गणस्ये न भवत्यन्यस्माद्भवतीति नियमादनिटोऽपीडाग