________________
२९२
सारस्वते द्वितीयदचौ
चवने काले वाच्यमाने धातोः दिवादयो महिपर्यन्ताः परस्मैपदात्मनेपदभेदेनाSष्टादश प्रत्यया भवन्ति । एषां चाष्टादशानां पाणिनीयमते लट् इति संज्ञा । अनचतने लङ् । दिसिमीत्यादि । तत्र दिपू सिप् अमिप् इत्येतेषां पकारः पित्कार्यार्थः । 1 इकार उच्चारणार्थः । तेन द् स् अम् इत्येव शिष्यते । आत्मनेपदे तन् इति वचनस्प नकारः इण्तन्यकर्त्तरीति सूत्रार्थः । परस्मैपदिनो भूधातोर्दिवादयो नव म त्यया भवन्ति । भू दिपू इति स्थिते अष्कर्त्तरि । गुणः । ओ भव् | स्वरहीनं० 1 प्रथमपुरुषैकवचने ' वावसाने ' अनेन दस्य तः । भवत् इति जाते । सूत्रम् ।
दिबादावद । दिबादौ परे धातोरडागमो भवति । अभवत्, अभवताम्, अभवन् । अभवः, अभवतम, अभवत | अभवम्, अभवाव, अभवाम । ह्येोऽभवत्त्वत्पुत्रः । अभवत, अभवेताम्, अभवन्त । अभवथाः, अभवेथाम् अभवध्वम् । अभवे, अभवावहि, अभवामहि । स राज्यमभवत । दिबादावट् । दिपू आदिर्यस्यासी दिनादिः । तस्मिन् दिवादी (स. ए.) अटू (म.ए.) मध्ये उ अव् । द्विपदं सूत्रम् । दिबादौ प्रत्यये परे सति धातोः अटू इत्यागमो भवति टित्त्वादादौ | अभवत् । अभवद् | अभवत | बहुवचने दे इत्यकारलोपः । स्वर० । अभवन् । मध्यमपुरुषैकवचने खो० | अभवः | अभवतं । अभवत | उत्तमपुरुषैकवचने अदे । स्वर० । अभवं द्वित्वबहुत्वयोः । व्योरा । अभबाव | अभवाम । अथोदाह० । ह्यः अतीतदिने पूर्वेद्युः तव पुत्रोऽभवत् । एवं ह्यः तव पुत्रावभवतां । ह्यः तव पुत्रा अभवन् । ह्यस्त्वमअभवः । ह्यो युवामभवतं । यो यूयमभवत । ह्येोऽहमभवं । ह्यः आवामभवाव । ह्यो वयमभवाम । इत्यादीन्युदाहरणानि योज्यानि । तथात्मनेपदिनो मूङ्घातोस्तनादयो नव प्रत्यया भवन्ति । भूतन् इति स्थिते । अप् कर्तरि गुणः । ओ अबू । दिवादावर | तनो नकारः | अभवत || आदाथई । अइए । अभवेताम् | अभवन्त | अभवथाः । अभवेथां | अभवध्वं । अइए | अभवे | अभवावहि । अभवामहि । स पुरुपो रा व्यमभवत ॥ इत्युदाहरणम् ॥
॥ समाप्तोऽयं चतुर्थो लकारः ॥ ४ ॥
परोक्षे । धातोः परोक्षेऽतीतेकाले णबादयः प्रत्यया भवन्ति । एषां संज्ञा लिट् ।