________________
२९०
सारस्वते द्वितीयवृत्ती वस्तुनः स्वयं प्रार्थनं मे इदं वस्तु भवतु इत्याशीः । परस्यान्यजनस्य वा इष्टाशं. सनं वांछितार्यकथनं वा आशीरुच्यते । तथा हे सौम्येदं कार्य कुरु इति यत्मवर्तनं तदेव प्रेरणं तत्र आशिषि प्रेरणे च तुबादयआमहेपू पर्यन्ता अष्टादश मत्ययाः .परस्मैपदात्मनेपदभेदेन भवंति । एषां च तुबादीनां पाणिनीयमते लोट् इति संज्ञा कथ्यते । तत्र परस्मैपदिनो भूधातोस्तुबादयो नव मत्यया भवति । भू तुम् । इति स्थिते । अप कर्तरि । गुणः । ओ अत् । स्वरहीनं । पकारः। भवतु । भूतुम् । इवि स्थिते । सूत्रम् ।
तुह्योस्तातडाशिषि वा वक्तव्यः । भवतु-भवतात, भवताम्, भवन्तु।
तुह्यो । तुश्च हिश्च तुही तयोः तुह्योः 1 आशीभेरणे तुप् हि इत्येतयोर्वचनयोराशिष्यर्थे वाच्यमाने वातङ् इत्यादेशो वा भवति । स्कारो डिस्कार्थः । गुण निषेधार्थः । न त्वन्त्यादेशार्थः । अत्र तु अप्मत्ययनिमित्तो गुणो भवत्येव । अकार उच्चारणार्थः । गुरुत्वात्सर्वस्य तात् इति । तेन प्रथमपुरुषैकवचने रूपद्वयम् । अनेन सूत्रेण भू तात् इति जावे अप्करि गुणः । ओ अन् । स्वरहीनं भवतात् भवतां । भव अन्तु इति स्थिते । अदे । अनेनाकारस्य लोपः । भवन्तु । मध्यमपुरुषैकवचने । भव हि । इति स्थिते । सूत्रम् ।।
अतः । अकारात्परस्य हेर्खग्भवति । न तु तातङः । तातडिति ङित्करणं गुणवृद्धिप्रतिषेधाथै नत्वन्त्यादेशार्थम् ।भवभवतात, भवतम्, भवत । भवानि, भवाव, भवाम । श्रायुष्मान् भवतु भवान् । अध्ययनायोद्यतो भव सौम्य । भवताम्, भवेताम्, भवन्ताम् । भवस्व, भवेथाम्, शवध्वम् । भवै, भवावहै, भवामहै । हरि भवस्व स त्वम् ।
अतः। ( पं. ए.) अकारादुत्तरस्य हि इति वचनस्य लुग्भवति । न तु नातहमा अनेन हेर्लुक् । भव इति सिद्धं । द्वितीयरूपे तुह्योरिति तातडादेशः। भवतात् । भवतं । भवत | उत्तमपुरुषवचनत्रयेऽपि । सवर्णे । भवानि । भवाव भवाम | अयोदाहरणम् । भवान् आयुष्मान् भवतु । दीर्घायुभवतु इत्याशी 1 एवं भवन्तौ आयु. छमन्ती भवतां । भवंतः आयुष्मंती भवंतु । अत्र यद्यपि भवच्छन्दो युष्मद्वाची तथापि सामान्येन नामरूपत्वात्मथमपुरुपयोगः । हे सौम्य त्वम् अध्ययनाप पठनाय उद्यतः सावधानो भव । अत्र प्रेरणे मध्यमपुरुपैकवचनपयोगः । एवमन्पदप्युदाहरणं