________________
ईध्वम्
सारस्ववे द्वितीयवृत्ती
॥ आत्मनेपदानि ॥ '१ ईत ईयाताम्
२ ईथास् ईयाथाम् ३ ईयर ईवहि ईमहि
विधिश्च संभावनं च विधिसंभावने तयोविधिसंभावनयोः (स.वि.) शेषाण्यष्टादशापि पदानि प्रथमैकवचनान्तानि । एवमेकोनविंशतिपदं सूत्रम् | अध विधिसंभावनयोरिति पदं व्याचष्टे विधिरित्यादिकर्चव्यः कत्तुं योग्यो योऽर्थः तस्योपदेशः शिक्षा स कर्त्तव्यार्थोपदेशः अथवाऽज्ञातस्य वस्तुनो ज्ञापनं विधिः। कर्तव्याोपदेशो यथा विप्रो वेदमधीते । अज्ञातज्ञापनं पावकृत्यादिशिक्षारूपः सर्वोऽप्पयं विधिः तथा संभावनं कल्पनं विचारणमुच्यते । तस्य पर्यायान्तरम् ऊह इति वितके इत्यर्थः। ततो विधौ संभावने च यादादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । एषां यादादीनामष्टानां पाणिनीयपाठकानां मते लिङ् इति संज्ञा । लिट् इत्यशुद्धः पाठः । वत्र प्रथमपुरुषैकवचने 'भूयात् ' इति स्थिते । अप्क० गुणः । ओ अ । स्वरही । भव यात् इवि स्थिते । सूत्रम् ।
याई। अकारात्परो या ई भवति । अईए । भवेत् भवेताम् भवेयुः।
याई। (म. ए.) सांके० । अकारात्परो विधिसंभावनसंबंधी प्रत्ययस्य यो या इति वर्णः स इ भवति । अनेन या इत्यस्य इकारः । अईए । भवेत् अग्रे प्रथमपुरुषबहुवचनोत्तमपुरुषैकवचनं वज्जयित्वा सर्वत्र या इत्यस्य इकारः । अईए। भवेतां । बहुवचने भव युस् इति स्थिते । सूत्रम् ।
युस इट् । अकारात्परस्य युस इडागमो भवति । भवे, भवेतम, भवेत।
युस (प. ए.) इद् (प्र. ए.) द्विपदं सूत्रम् । अकारात्परस्य युस् इत्येतस्प वचनस्य इडागमो भवति । ठित्वादादौ । अइए । भवेयुः । भवेः भवेतं भवेत । सर्वत्र या इतीकारः । उत्तमपुरुषैकवचने भव याम इति स्थिते । सूत्रम् ।
यामियम् । अकारात्परो यामियं भवति । भवेयम् भवेव भवेम। शिष्यो गुरुशुश्रूषको भवेदिति विधिः । भवेदसौ वेदपारगो ब्राह्मणत्वादिति संभावनम् । भवेत, भवेयाताम,