________________
२८६
सारस्वते द्वितीयवृत्ती भवामि भवावः भवामः । स राजा धार्मिको भवति । त्वं साधुभवसि । अहमात्मविद्भवामि । इत्यादि प्रयोक्तव्यम्।
वच मच व्मौ तयोव्मोंः । (स.द्वि.) आ (प. ए.) । सांके 14त्ययसंबंधिनोऽकारस्य तिबादेर्वकारे मकारे च परे आत्वं भवति । अनेनाऽपोडकारस्य आकारः । भवामि । भवावः । भवामः । इति सिद्धम् । अथ पंथकारः उक्तिमयोगमाह । स राजा धाम्मिको भवति । अत्र राजा इति कर्तृपदम् । भवतीति क्रियापदम् | धातोः कर्मनिरपेक्षत्वात् अकर्मकत्वं धामिक इति विशेषणपदम् । एवं तौ राजानौ धाम्मिको भवतः । ते राजानो धामिका भवन्ति । त्वं साधुभवसि । युवा साधू भवथः । यूयं साधवो भवथ । अहम् आत्मविद्भवामि । आवाम् आत्मविदौ भवावः । वयम् आत्मविदो भवामः । इत्यादि उक्तिवाक्यं प्रयोज्यं । अथ पुरुषभेदमाह । नामयुष्मदस्मदा द्वयोत्रयाणां वा युगपद्योगे कस्य पुरुषस्य क्रियापदं भवतीत्यत आह । सूत्रम्।
अव्यवधानाच पुरुषविशेषः । यस्य क्रियापदेन व्यवधानं नास्ति ततः पुरुषविशेषः । अत्र व्यवधानं सूत्रस्थं ग्राह्यं न तु वाक्यस्थम् । सूत्रक्रमेण पुरुषप्रयोगो भवति । साधू स च त्वं च भवथः । अहं, वं, स च पण्डिता भवामः । भूडू प्राप्ती आत्मनेपदी । तस्मात्तेप्रभृतीनि नव वचनानि प्रयोज्यानि । अपगुणावः । भवते।
अव्यवधानाच्चेति । अव्यवधानात् पुरुषविशेषः । अव्यवधानाच पुरुषकियाभिः सहाऽव्यवधानादन्तरराहित्यात प्रथममध्यमोत्तमानां क्रमेण पुरुषविशेषः, चकारात् क्रियामिळवधानादंतरसाहित्यात उत्तममध्यमप्रथमानां व्युक्रमेण पुरुषविशेषः, मध्यमप्रथमयोर्मध्यमः, उत्तममध्यमयोरुत्तमः । उत्तममध्यमपथमेपूत्तमः । एवं सर्वलकारेषु ज्ञेयम् । स च त्वं च भवथः इति क्रमव्युक्रमे पुरुषविशेपः । अहं सच भवावः । अहं च त्वं च भवावः । अहं च त्वं च स च भवामः । इति व्यक्रमोऽप्पेवमेव ज्ञातव्यः ॥१॥ (अव्यवधानात् अंतररहितत्त्वात् क्रियायाः सामीप्यात पुरुषविशेषः प्रयोकव्यः। प्रथमपुरुषमध्यमपुरुषोत्तमपुरुपाणां विशेषः स्यात् । अयमर्थः । नामयुष्मदस्मदा पुरुषत्रयाणां मध्ये द्वयोस्त्रयाणां वा युगपत्पयोगे सति य. क्रियायाः समीपस्थं पदं तस्यैव पदस्य पुरुपो भवति । तस्यैव पुरुपस्य क्रियापदं प्रयोज्यम् । यथा साधू स च त्वं भवथः इति । अत्र स च त्वं च इत्यत्र युष्मदः कि