________________
भ्वादिप्रक्रिया |
२८५
सौ ङित् (प्र. ए.) द्विपदं पकारानुबन्धं तिपू उप् प्रत्ययादिकं तादिकं । ता । तारौ । तारस् । इत्यादिश्वस्तनार्थप्रत्ययं च विहाय त्यक्त्वा योऽन्यः प्रत्ययः स उकारानुबन्धं विनापि आख्याते ङित्संज्ञो भवति । पकारेतं तादिकं चेति आदिशब्दात्सिस्योर्ग्रहणम् । तेन भूतार्थे सिमत्यये परे अवर्तिष्ट अदर्शयत् इत्यादौ गुणः । तथा आशिषि सीष्टप्रत्यये परे चेषीष्ट स्तोषीष्टेत्यादौ गुणः । अथ ङित्प्रयोजनमाह । सूत्रम् ।
क्रियसि । किति ङिति च परे धातोर्गुणो भवति द्वनुसं वर्जयित्वा । कृतद्विर्वचनस्य उसि परे तु गुणो भवति । ततो डित्वात्तसि गुणप्रतिषेधेऽप्प्रत्ययनिमित्तो गुणो भवत्येव । स्त्रोर्विसर्गः । भवतः । बह्वर्थविवक्षायां भव अन्ति इति स्थिते । अदे | अकारस्य लोपो भवति अकारे एकारे च परे । अदे इत्यत्र अकारैकारौ तिबादिप्रत्ययस्येत्यर्थः । भवन्ति । भवसि भवथः भवथ ।
I
,
कित्यद्वचसि । क्व च क्डौ तौ इतौ यस्य स ङ्कित तस्मिन् ङ्किति (स. ए. ) द्विरिति द्विरुक्तो धातुः । द्वेः द्विरुक्तस्य धातोः उस् द्वशुस् तस्मादन्योद्वयस् । तस्मिन् अद्वयसि (स. ए.) द्विपदं सूत्रम् । किति पिति व्यतिरिक्त्रेण बादौयक् प्रत्ययादौ च ङिति तादिवर्जिते प्रत्यये यङ्प्रत्ययादौ च परे धातोर्नामिनो गुणो न भवति । तत्रापि विशेषमाह । द्वनुसमित्यादि द्वेर्द्विरुक्तस्य धातोः उस् द्वयुस् तं द्वयसं वर्जयित्वाऽन्यत्र गुणो न भवतीत्यर्थः । कृतद्विर्वचनादिति अपूप्रत्ययस्य लुकि कृते भ्वादेर्घातोर्द्विरुक्तात्कृतद्वित्वात्परस्य योऽन्स्थाने उसादेशो विहितः तस्मिन्परे सति ङिचेपि गुणो भवतीत्यर्थः । ततोऽत्र प्रस्तुते भूधातौ तस्य ङित्त्वात्तसि परे गुणप्रतिषेधेपि अप्प्रत्ययनिमित्तो गुणो भवत्यव गुणे कृते भो अव् । स्वर० । स्रो० भवतः इति सिद्धं वव्र्थानां बहूनां वक्तुमिच्छा यत्र क्रियते तत्र बहुवचने भू अन्ति इति स्थिते ( अप्कर्त्त ० ) ( गुणः ) ओ अव् । स्वर० भव अंति इति जातम् । सूत्रम् । अच्च एच्च अदे तस्मिन् (स. ए.) सांके० | अकारस्य त्यादिप्रत्ययस्थे अकारे एकारे च परे लोपो भवति । अनेन वमध्यस्थितस्याऽ प्प्रत्ययसंबंधिनोऽकारस्य लोपः। स्वर० । भवति इति प्रथमपुरुषस्य वचनत्रयसाधनम् । एवं भवसि । भवथः । भवथ । इति मध्यमपुरुषे वचनत्रयसाधना । उत्तमपुरुषवचनत्रयेऽपि अप्प्रत्यये नामिनो गुणे च कृते । ओअव् । स्वर० भवामि । भववः । भवमः । इति स्थिते । सूत्रम् ।
मोरा | अकारस्य आत्वं भवति वकारे मकारे च परे ।