SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। २८३ तदामरम् ।' इत्यत्र बुधा इत्पप्रयुज्यमानेऽपि नानि आहुरितिपथमपुरुषपयोगः। तथा युष्मदि प्रयुज्यमाने ऽप्रयुज्यमानेऽपि मध्यमपुरुषः। यथा+कुमारसंभवे-'त्वं पितृणामपि पिता देवानामपि देवता ॥ परतोऽपि परश्चासि विधाता वेधसामपि ॥१॥ इति प्रयुज्यमाने मध्यमपुरुषपयोगः। अस्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽप्युत्तमपुरुषः। प्रयुज्यमाने यथा। 'तमहमिह निमिचं विश्वजन्मात्ययानामनुमितमभिवंदे भग्रहःकालमीशम् । अमयुज्यमाने यथा । 'मंदः कवियश मार्यो गमिष्याम्युपहास्यताम् ' इत्यादि । अथ परस्मैपदभयोगशिक्षामाह । कर्तरिपंच । पं च परस्मैपदं कर्तरि भवति। चकारादात्मनेपदमपि । तत्र भूइत्येतस्मात्परस्मैपदिनोऽब्विकरणात्कतरि तिबादयो योज्यन्ते । तत्रैकत्वविवक्षायां प्रथमपुरुषैकवचने भू तिप् इति स्थिते । पकारः पित्कार्यार्थः । कर्तरि पंच । त्रिपदम् । पम् इति परस्मैपदं तिप् तर अन्ति इत्यादि नवलक्षणं कर्तरि कतावेव भवति । न केवलं परस्मैपदं किंतु आत्मनेपदमपि कर्तुती भवति । अयं भावः । परस्मैपदिनां धातूनां कर्तरि परस्मैपदं भवति । आत्मनेपदिनामात्मनेपदं भवति । उभयपदिनां तु उभे अपि आत्मनेपदपरस्मैपदे भवतः। यथा'जयंति सन्त' इति परस्मैपदम् । तदनु च विजयन्ते इत्यात्मनेपदम् । 'सारस्वतीमृजें कुर्वे' इत्यत्र करोतेर्धातोरात्मनेपदम् । प्रक्रियाकौमुदी कुर्म' इति परस्मैपदम् । एवमन्यत्राप्यूह्यं । कर्मोक्तौ तु आत्मनेपदमेव भवति । अत्र प्रथमं यदुक्तं स्वादिरिति सूत्रेण भूइत्यादीनां धातुसंज्ञा प्रतिपादिता तेन भूधातोर्दशानामपि लकाराणां प्रयोगं चिकीर्षुः प्रथमं वर्तमानार्थविभक्तिमयोगं दर्शयति । तत्रेति । तेषु परस्मैपधात्मनेपाभयपदलक्षणेषु धातुषु भूसचायामित्यादिर्धातुरुदाचत्वात्परस्मैपदी वर्तते । स चाविकरणो भवति । विक्रियतेऽवस्थान्तरं भजने धातुरनेनेति विकरणम् । यथा प्रकृतिमत्ययार्थाभिधानेन सहापोविकरणम् । पद्वा प्रकृतिप्रत्ययातःपाती गणविभागकारकः प्रत्ययो विकरणं सचापकर्तरीत्याद्याख्यातोका प्रत्ययस्तद्विकरणमुच्यते । अविकरणं यस्यासौ अविकरणस्तस्मात्परस्मैपदिनोऽधिकरणाच्च विवादयः परस्मैपदार्था नव प्रत्यया योज्यन्ते । इह हि धातवो दशधा। तत्राइविकरणा म्वादयः १, लग्विकरणा अदादयः २, लुग्विकरणा अपि द्विरुक्तह्वादयः३, यविकरणा दिवादयः ४, उविकरणाः स्वादयः ५, नुविकरणा रुधादयः ६, उपविकरणास्तनादयः ७, अविकरणास्तुदादयः ८, नाविकरणाः क्यादयः ९, स्वार्थेऽयंताश्चरादयः १० । तेषु भूधातुरधिकरणस्तस्मात्तिबादयः प्रयोज्यन्ते । भूसत्तायाम् अयं धातुः सत्तायां विद्यमानार्थे भवनार्थे । परस्मैपदी । परतोऽन्यत्
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy