SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २८२ सारस्वते द्वितीयवृत्ती प्रथमक्षणे एव लगः स प्रारब्धः स यावत् अपरिसमाप्तः अपरिपूर्णस्तावद्वमान इत्युच्यते । मारब्धापरिसमाप्तक्रियोपलक्षितः कालो वर्तमानस्वस्मिन् उक्तलक्षणे वर्चमाने कालेऽभिधेये वाच्यमाने सति धातोस्तिवादयो महेपर्यन्ता अष्टादश प्रत्यया विभक्तिलक्षणा भवन्ति, प्रयुज्यन्ते इत्यर्थः । तत्र विबादयो मस्पय्यंताः परस्मैपदसंज्ञाः तेआदयो महेपयंता आत्मनेपदसंज्ञाः । अथ प्रथान्तरे एतेषामेवाष्टादशवचनानां संज्ञान्तरमाह । अस्पेति । पाणिनीयानाम् आचार्याणां पाणिन्युक्तग्रन्थपाठिनां वा मते अस्य तिबादेरष्टादशसंख्यस्प प्रत्ययगणस्य लट् इवि संज्ञा ज्ञेपा। वर्चमानेलट् १, विधिसंभावनयोलिङ् २, आशी प्रेरणयोर्लोट् ३, अनद्यतने० लङ्४, परोक्षे लिट् ५, आशिषि लिङ् ६, वस्तने लुट् ७, भविष्यति लुट् ८ क्रियातिपत्तौ ल९, भूतेलु१० इति दश लकारास्तत्र वर्तमाने लट् । एतेषामेव मत्ययानां त्रित्रिवचनविभागभेदेन पुरुषसंज्ञामाह । सूत्रम् । नानि च युष्मदि चास्मदि च भागैः । नामादिपूपपदेषु प्राप्लेषु सत्सु त्रिनिर्भागैरते प्रत्यया भवन्ति । ते च त्रयो भागा यथाक्रम प्रथममध्यमोचमसंज्ञा भवन्ति । नानि प्रयुज्यमाने चशब्दादप्रयुज्यमानेऽपि प्रथमपुरुषः। युष्मदि मध्यमः। तथैवास्मद्युत्तमः । भू सत्तायाम् । नानि च युष्मदि च अस्मदि च भागैः । ( सप्तपदं सूत्रम् ) नामादिष्विति । देवः देवी देवाः । अथवा सः तौ ते इति नामत्वं । युवा यूयम् इति युष्मद् । अहम् आवां वयम् इति अस्मद् । नामयुष्मदस्मल्लक्षणेषु पदेपु उपपदेपु समीपे प्रयुज्यमानेषु परस्मैपदिनामात्मनेपदिनां च प्रत्येकं त्रिभिर्भागमछेदैः कृत्वा एते उक्ता वक्ष्यमाणाश्च प्रत्यया भवन्ति । तत्र विप् तस अन्ति इति परस्मैपदे । ते आते अन्ते इत्यात्मनेपदे । सिए १, थस् २, थ ३, से, आथे २, ध्वे ३ इति परस्मैपदात्मनेपदयोर्मध्यमपुरुषसंज्ञा । मिप १ वस् २ मस् ३ परस्मैपदे। ए १ वहे २ महे ३ आ. त्मनेपदे इत्युत्तमपुरुपसंज्ञा ॥ ३ ॥ अथ नामादिपु पथमादिपुरुपप्रयोगशिक्षामाह । नानीति । नानि सामान्यलक्षणे प्रयुज्यमाने उच्यमाने चशव्दादपयुज्यमानेऽपि प्रथमपुरुपो भवति । युष्मदस्मदोश्च प्रयोगेऽप्रयोगे मध्यमपुरुपोत्तमपुरुपी भवतः। ते च त्रयो भागाः यथाक्रमं प्रथममध्यमोचमसंज्ञा भवंति । तेषां ग्रंथेपूदाहरणानि पदर्यन्ते । प्रयुज्यमाने यथा । चंपूकथायां+ जयति गिरिमुतायाः कामसंतापवादिन्पुरसि रसनिषेकचांदनश्चंद्रमौले ' इति । यदि वा-'ते संतः श्रीतुमर्हन्ति ।' तथाऽप्रयुज्यमाने यथा रत्नमालायां । 'शिशिरपूर्वमृनत्रयमुत्तरं अयनमाहुरहश्श
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy