SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृत्तौ आदनुदाचेति । आत् (प्र० ए० ) हसेपः अनुदात्तश्च च अनुदाचकी तो इतौ यस्य सोऽनुदात्तन्ति तस्मात् अनुदात्तङितः । द्विपदं सूत्रम् | अनुदात्तेत् इति धातुपाठे योऽभिहितः धातुः सः अनुदाचत्संज्ञकः कल्पितः । एधू वृद्धौ इत्यादिकः । तथा ङि ङकारानुबन्धः शी स्वप्ने इत्यादिकः ततोऽनुदात्तेतो ङितश्च धातोः आव इति शब्देन आत्मनेपदं भवतीत्यर्थः । अथोमयपदिनां लक्षणमाह । २८० जिव स्वरिते उमे । जितः स्वरितेश्च धातोरुमे आत्मनेपदपरस्मैपदे भवतः । आत्मगामि चेत्फलमात्मनेपदं परगामि चेतपरस्मैपदं प्रयोक्तव्यम् । अन्वर्थत्वात् । ञित्स्वरितेत्यादि । अकार इत् यस्य स जित् पश्च स्वरितेत्संज्ञको धातुपाठे उक्तः । निचूस्वरितेच्च मित्स्वरितेत् तस्मात् ञित्स्वरितेतः (पञ्चम्पेकवचनम् ) उभे ( प्र द्वि० ) ईमौ अइए द्विपद्वं सूत्रम् जितो धातोर्बुदाञ् दाने हुकृञ् करणे वृञ् इत्यादेः प्रसिद्धात्तथा स्वरितेत इति यस्य धातोर्धातुपाठे स्वरितेत इति संज्ञा कल्पितास्ति तस्मातपचपाके इत्यादेर्धातुपाठोक्तात् धातुगणात उभे इति आत्मनेपदपरस्मैपदे द्वे अपि भवतः । अथ ग्रन्थकार एवोभयपदिनां धातून पदप्रयोगशिक्षामाह । आत्मगामि चेदिति चेद्यदि । उभयपदिनां धातूनां क्रियायाः फलम् आत्मगामि भवति । तदात्मनेपदं प्रयोज्यं यथा आत्मार्थं पचते । परार्थ पचति । तथा च । यथा जगतः पितरौ वन्दे इत्यत्र वन्दनलक्षणक्रियायाः फलरूपात्मगामित्वात्कालिदासकविर्वन्दे इत्यन्त्रात्मनेपदं प्रयुक्तवान् । तथा यद्यपि सारस्वती - मृजुं कुर्वे इत्यत्र पठनस्प परगामित्वात्परस्मैपदं युज्यते । तथापि तत्पाठनादुत्पन्नं पुण्यलक्षणं फलं कर्तृगाम्पेवेत्यवधार्यात्मनेपदं प्रयुक्तं । परगामीति चेद्यदि क्रियायाः फलं परगामि भवति । तदोभयिनां धातूनां परस्मैपदं भवति । पथा format मुद्यां कु इत्यत्र करोतेर्धातोः परस्मैपदं ग्रन्थस्य शिष्यानुशिष्यपठनपाoreक्षणस्य फलस्प परगामित्वात्प्रयुक्तं । एवमन्यदपि यथासंभवमूह्यम् ॥ एतत्पदद्वयस्य प्रयोजनं कुत इत्यत आह । अन्वर्थादिति । आत्मने परस्मै इति द्वयोर्नाम्नो रनुगतार्थत्वात् । यादृशं नाम area एवार्थः । यथा आत्मनिमित्तमात्मनेपदं परनिमित्तं परस्मैपदमित्यर्थः । तस्मात् इदं त्वात्मगामीत्यादिपदप्रयोगकथन युभयपदिनामेवावगन्तव्यं नान्येषां । असार्वत्रिकश्चायं विधिः । अथ परस्मैपदमयो गमाह ! परतोन्यत् । पूर्वोक्तनिमित्तविधुरादन्यस्माद्धातोः परस्मैपदं भवति ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy