________________
द्वितीयवृत्तौ भ्वादिप्रक्रिया ।
२७९
अथाख्यातप्रत्यया निरूप्यते ॥ वक्ष्यमाणाः प्रत्यया धातोर्ज्ञेयाः । ॐ नमः परमात्मने ॥ सरस्वतीं सदाभक्तवांछितार्थंविधायिनीम् । सद्वाग्विलाससंदोहदोहां कामदुघामिव ॥ १ ॥ नत्वानागपुरीयाव्हतपोगणविभूषणम् ॥ श्रीराजरत्नसूरिं चाख्यातव्याख्या विधीयते ॥ २ ॥ ( युग्मम् ) अथ ग्रन्थकार आख्यातप्रत्पयान्विवक्षुः प्रतिज्ञां करोति । अथाख्यातेत्यादि । अथेति संज्ञासंधि - विभक्तियुष्मदस्मद्भीमत्ययकारकसमासतद्धित लक्षणाधिकाराष्टककथनानंतरम् आख्यातं नाम व्याकरणस्य नवमोधिकारस्तस्य प्रत्यया निरूप्यते कथ्यते । आख्यायंते कथ्यते अर्थात् निष्पाद्यन्ते भ्वादीनां रूपाणि येन तदाख्यातम् अथवा आख्यांत आचक्षते कर्त्तर्व्यापारमित्याख्याताः । प्रतीयते ज्ञायतेऽर्थो येभ्यस्ते प्रत्ययाः आख्पातसंज्ञकाः प्रत्ययाः आरूपातप्रत्ययाः। तत्रप्रथममधिकारसूत्रम् धातोः। धातोरिति पंचम्येकवचनान्तं पदं । वक्ष्यमाणा इति वक्ष्यन्ते कथयिष्यन्ते ये ते वक्ष्यमाणा अतः परं ये वक्ष्यंते प्रत्ययास्ते धातोरेवाग्रे ज्ञेया न नाम्नः । अत्र प्रत्ययशब्देन प्रायो विभक्तयों ज्ञेयाः । तदधिकारादबादयोऽपि प्रत्यया धातोरेव ज्ञेयाः । तांश्च यथाधिकारं ग्रन्थकदेव वक्ष्यति । अथ कोऽसौ धातुरित्यत । आह । सूत्रम् । भ्वादि: । भूसत्तायामित्यादिशब्दो धातुसंज्ञो भवति । सच त्रिविधः । आत्मनेपदी परस्मैपद्युभयपदी चेति ।
भ्वादि: । भूः आदिर्यस्यासौ भ्वादि: त्रो० भूधातुः सत्तायां विद्यमानार्थे वर्त्तते इत्येवमादिर्यः शब्दो वर्णसमुदायात्मको धातुपाठेऽभिहितः स धातुसंज्ञो भवति। विभक्तिप्रत्ययरहितः केवलो भ्वादिर्धातुसंज्ञो भवति । तत्क्रमश्च धातुपाठादवगन्तव्यः । इह ग्रन्थगौरवमयान्न लिख्यते । दधात्यर्थमिति धातुः स चेति । सधातुखिविधः तिस्रो विधाः प्रकारा यस्य स त्रिविधः पदभेदात्रिप्रकारः । आत्मनेपदं अष्टादशसु वक्ष्यमाणेषु विभक्तिवचनेषु अंत्यनववचनात्मकं विद्यते यस्य स आत्मपदी एध वृद्धावित्यादिः ॥ १ ॥ तथा परस्मैपदं वक्ष्यमाणवचनेषु आद्यं नववचनात्मकं विद्यते यस्य स परस्मैपदी भूसत्तायामित्यादिः ॥ २ ॥ तथा उभये परस्मैपदात्मनेपदे विद्येत यस्मस उभयपदी पचति करोति इत्यादिः ॥ ३ ॥ यद्यपि नि. विशादेरिति सूत्रेण केषांचिद्धातूनां पदविपर्ययो भवति । तथाप्यत्र स्वभावेन पदत्रयेण त्रिविधत्वमुक्तम् । अथ प्रथममात्मनेपदं येभ्यो भवति तान् दर्शयति
सूत्रम् ॥
-
आदनुत्तदात्तङितः । अनुदातेतो ङितश्व धातोरादित्यात्मनेप भवति ।