________________
तद्धितमक्रिया।
२७७ पवति । द्विपकारमिति । द्वौ प्रकारौ अस्येति वा द्विधा, निधा, चतुर्धा, पञ्चधा, घोढा इत्यादि।
गुणोण वा । द्वेधा धा। द्वैध त्रैधम् ।
गुणोऽणवा । धामत्यये परे द्वित्रिशब्दयोर्गुणो भवति, अण्च वा भवति । इकारस्य ए गुणः । द्वेधा, त्रेधा क्त्वाद्यन्तंचेति । अव्य० । तथा धामत्ययात् । स्वार्थेऽपत्ययो भवति । णकारो वृद्धयर्थः । द्विधा, त्रिधा । उभयत्राप्यण वृद्धिः । यस्य लोपः। गायत्र्याधण् । नपुंसके (म. ए.) अतोऽम् (म. ए.) द्वैधं, त्रैधम् ।
क्रियाया आवृत्तौ कृत्वस् । पंचकृत्वः । सप्तकत्वः। क्रियाया आवृत्तौ कृत्वस् । क्रियायाश्चलनगमनचरणादिकाया आएचौ स- - संख्येन परावृत्तेन पौनःपुन्यगणने वारंवारार्थे च समादिसंख्यायाः कृत्वम् इति प्रत्ययो भवति । पंचन पंचवारान् इति पञ्चकृत्वः । कृत्वस् प्रत्ययः । नानो प्रथमकवचनं सि अन्यया० लो० पंचकृत्वः । एवं सपकृत्वः, कतिकृत्वः । इत्यादी. न्युदाहरणानि ।
दित्रिभ्यांमुः। द्विरुक्तं त्रिरुक्तम् ।
द्वित्रिभ्यां सुः। द्वित्रिशब्दाभ्यां क्रियाया आवृत्तौ सुप्रत्ययो भवति । उकार उच्चारणार्थः। द्वौ वारौ इति द्विः । श्रीन वारान् इति त्रिः ।स् मत्यये कृते (म.ए.) अव्यया० स्त्रो० अग्रे उक्तमिति नामिनोरः । स्वर० एवं द्विमुक्ते। द्वौवारौ इत्यर्थः । निरधीते त्रिः। त्रीन् वारान् अधीते पठतीत्यर्थः ।
एकस्य सुप्रत्ययसहितस्य सकदादेशो वक्तव्यः । सकदेकवारम् । बहादेः शस् । बहुशः । स्तोकशः।
अल्पशः । शतशः। सहस्रशः। कोटिशः। बव्हादेः शस् । बव्हादेः नानो वारंवारार्थे शस्मत्ययो भवति । बहु, बहून् वारान्, इति बहुशः । शस् प्रत्ययः । अव्य० एवं शतशा, सहस्रशः, लक्षशः, कोटिशः, अनेकशः, भूरिशः, गणशः इत्यादीनि ।
तयायटौ संख्यायाः। द्वितयं त्रितयं द्वयं त्रयं द्वितयी त्रितयी द्वयी त्रयी। शेषा निपात्याः कत्यादयः।
तयायटौ संख्याया अवयवार्थे । संख्यायां वाच्यमानायां तय अयट् इत्येतो प्रत्ययौ भवतः । तत्र तपट् संख्यावाचिनः शब्दायथासंभवं भवति ।