SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रक्रिया | २७५ णे तत्रापि तीयः । तस्मिंश्च परे त्रेः संप्रसारणं यकारस्य सस्वरस्य संप्रसारणं इकारः, कारस्य उकारः, रेफस्य ऋकारः, सस्वरस्यैव ऋकारः । दीर्घस्वरयुक्ते च दीर्घ ईकादिति संप्रसारणं । अत्र त्रिशब्दे रेफस्य ऋकारः । द्वितीयः, तृतीयः । षट्चतुरोस्थट् । षण्णां संख्यापूरकः षष्ठः । ष्टुमिष्टुः । चतुर्णां संख्यापूरकः, चतुर्थः । षट्चतुरोस्थट् इति । षट्चतुरोः इत्येतयोः संख्पेयविशेषावधारणे संख्यापूरणेर्थे थट् प्रत्ययो भवति । षण्णां संख्यापूरणः षष्ठः। थ प्रत्ययः ष्टुभिष्टुः थस्य ठः स्वर० (म.ए.) खो० चतुर् चतुणां संख्यापूरणश्चतुर्थः प्र० जल० टित्वादीपू । षष्ठी चतुर्थी । चतुर्णां संख्यापूरणः तुर्थः तुरीयः इति तु पूर्वमेवोक्तम् सूत्रम् । पञ्चादेर्मट् । पञ्चमः । सप्तमः । अष्टमः । नवमः । दशमः । इत्यादि । पञ्चादेर्म । पञ्चादेर्नानो दशपर्यन्तात् संख्येयविशेषावधारणेऽर्थे मट् प्रत्ययो भवति । पञ्चानां संख्यापूरणः पञ्चमः । मप्रत्ययो नाम्नो० (प्र. ए. ) पञ्चमः । एवं सप्तमः, अष्टमः, नवमः, दशम इति । एकादशादेर्डः । एकेनाधिका दश एकादश । एकादशानां संख्यापूरकः एकादशः एकादशी । एकादशादेर्ड: । टकारानुबन्धत्वमत्राप्यनुवर्तनीयम् । एकादशन्, एकादशानां संख्यापूरणः एकादशः । डप्रत्ययः अत्र डित्वाट्टिलोपः । स्वर ० ( प्र. ए. ) त्रो० सहादेः सादिरिति एकस्य एका इत्यादेशः देवशब्दवत् एकत्वात्माय एकवचनमेव एवं द्वादशः, त्रयोदशः । द्वित्र्यष्टकानां द्वात्रयोष्टकाः । प्राक्शतादनशीतिबहुव्रीह्योरीत वक्तव्यम् । द्वादशः द्वादशी । त्रयोदशः त्रयोदशी । चतुर्दशः चतुर्दशी । सप्तदशः सप्तदशी । अष्टादशः अष्टादशी । द्वित्र्ष्टानां द्वात्रोष्टा इति । द्विशब्दस्प द्वा इत्यादेशः त्रिशब्दस्य त्रय इत्यादेशः अष्टन् इत्यस्य अष्टा इत्यादेशः । चतुर्द्दशः, पञ्चदशः, षोडशः, सहादेः सादिरिति षस्यः दस्यङः उओ सप्तदशः, अष्टादशः, एकोनविंशतिरित्पत्र, डमत्यये कृते निपातनात् तिसहितस्य टेरकारस्य लोपः । स्वर० एकोनविंशः । विंशत्यादेर्वा तमद् । विंशतेः संख्यापूरकः विंशतितमः । पक्षे विंशतेस्तिलोपः । विंशः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy