________________
२७४
सारस्वते प्रथमवृत्तौ
परिमाणे दन्नादय इति । उर्ध्वपरिमाणेऽर्थे, दम, द्वयसर, मात्र इत्येते त्रयः प्रत्यया भवन्ति वक्तव्यमात्रमेतत् । उदाहरणम् जानु, जानु परिमाणमस्य जानुदन्नं भत्र परिमाणे दमदमत्ययः । जानुपरिमितं जलमित्यर्थः । तथा पुरुषः, पुरुषः परिमाणमस्येति पुरुषमात्रम् । तथा शिरस्, शिरः परिमाणमस्य शिरोद्वयसम् । टकारानुबन्धत्वात् ष्ट्रित इति ईपू । तेन ऊरुद्वयसी, ऊरुदशी, शिरोद्वयसी, इत्यादि । द्वयोर्बहूनां चैकस्य निर्धारिणे किमादिभ्यो डतरडतमौ वक्तव्यौ । कतरो भवतोर्मध्ये काण्वः । क इति कतरः । कतमो भवतां तान्त्रिकः । क इति कतमः । भवतोर्यतरस्तार्किकस्ततर उगृह्णातु । य इति यतरः । स इति ततरः । यतमः,
/
ततमः ।
द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो डतरडतमावित्यस्प व्याख्या | द्वयोर्मध्याद्बहूनां वा नराणां मध्यादेकस्प निर्द्धारणे पृथक्करणे जात्यादिपरिप्रश्ने वा किमादिभ्य इति किंयत्तद्धयो द्वितौ अतरअतमौ भवत इत्यर्थः । किम् बहूनां द्वयोर्वा मध्ये कः कतरः । अत्र निद्धीरणं पृथक्करणं तस्यार्थे डतरः । द्वित्वाहिलोपः । स्वर० कतरो भवतां काण्वः । काण्वगोत्रीयः काण्ववंशीयः कः । तथा किम्, इतरः पूर्ववत् । कतमो भवतां मध्ये तान्त्रिकः शास्त्रविदित्यर्थः । सैद्धान्तिकस्तु तान्त्रिकः । यद्, तद्, उभयत्रापि डतरः टिलोपः स्वर० त्रो० भवतोर्द्वयोर्मध्ये यतरस्ताकिस्ततर उह्णातु ब्रवीतु इति भावः । चकारात् ' एकशब्दादपि डतरडतमो वक्तव्यौ' एकतरः, एकतमः । अन्यतरः, अन्यतमः | संख्येयविशेषावधारणे द्वित्रिभ्यां तीयः । द्वयोः संख्यापूरकः द्वितीयः ।
संख्येयेति । संख्यातुं याग्यः संख्येयः । द्वयोस्त्रयाणां वा मध्ये योऽन्त्यः संख्येयो गणनायां प्रस्तुतः संख्यापूरणस्तस्य विशेषावधारणे अयमयम् इत्यस्मि - ar परिच्छेदे द्वित्रिशब्दाभ्यां तीयप्रत्ययो भवति ।
त्रेः संप्रसारणं सस्वरस्य । त्रयाणां संख्यापूरकः तृतीयः ।
त्रः संप्रसारणं सस्वरस्य । त्रिशब्दस्य संप्रसारणं रेफस्य ऋकारः । द्वित्रि, द्वयोः पूरणो द्वितीयः एकस्यापेक्षयाऽपरःसंख्येयः तरय विशेपपरिच्छेदः क्रियत इति द्विशब्दात्तीपप्रत्ययः। अन्यत्र तु द्वौ । त्रयाणां संख्यापूरणत्वेन विशेषावधा