SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (२६८ ) . सारस्वते प्रथमावृत्तौ भूतपूर्वे चरट् । पूर्व भूत इति दर्शनादिक्रियया तत्समयात् माग्विपपीभूतो भूतपूर्वस्तस्मिन्नर्थे चरट्प्रत्ययो भवति । दृष्ट २ पूर्व दृष्ट इति विग्रहे अत्र दर्शनकियया वर्तमानकाला प्रागपि दृष्टत्वात् स्मृतिज्ञानेन विषयीभूतत्वात् पूर्वोऽतश्वरद् । उभयत्रापि टकार ईबर्थः । एकत्र पुंस्त्वे देववत् । मयट् (म. ए. ) अन्यत्र टित्त्वादीपू । शितः । यस्य लोपः। स्वर० नदीवत् । सूत्रम् । प्राचुर्यविकारप्राधान्यादिषु मयट् गोः पुरीषे च । गोः पुरीपं गोमयम् । अन्नं प्रचुरं यस्मिन्नसौ अन्नमयो यः । मृदो विकारो मृण्मयो घटः । स्त्री प्रधानं यस्यासौ स्त्रीमयो जाल्मः । आदिशब्दात्स्वरूपार्थे मयट् । अमृत स्वरूपोऽमृतमयश्चन्द्रः। प्राचुर्येति । माचुर्यविकारमाधान्यादिषु (स. ब.) मयट् (म. ए.) मचुरस्य भावः माधुर्य विकारोऽवस्थान्तरापादनं साधान्यं मुख्यत्वं तथा आदिशब्दानिर्वनस्वरूपपुरीषावयवेषु च । एष्वर्थेषु च नानो मयट् प्रत्ययो भवति । उदाहरणानि अन, अर्थ प्रचुरम् अस्स्यस्मिनिति अन्नमयो यज्ञः । अत्र प्राचुर्यार्थ प्रयुटू । टिवादीए अन्नमयी स्थाली। मृदु, मृदो विकारो मृन्मयः अत्र विकारे मयटी अवसाने दस्य तः प्रमे भमा वा तस्य नः स्वर० । यद्वा क्वचिजबानामपि प्रमा एष्टव्याः । इति दस्य नः। स्वर० मृन्मयो घटः । स्त्री प्रधानाऽस्येति स्त्रीमयो जाल्मः।जाल्मो मूर्खः अविचार्यकारी इत्यर्थः । अमृतेन निवृत्तो अमृतमेव स्वरूपं वा यस्य सोऽमृतमयश्चन्द्रः । भत्र निर्व‘नार्थे मयट् । गोः पुरीषं गोमयः । शरस्यावयवाशरमया बाणाः। तदधीते वेद वेत्यत्राण्वक्तव्यः । अधीतेऽथवा वेद इत्यत्रार्थे द्वितीयान्तानानोऽण वक्तव्यः। व्याकरणमधीते वेद वा वैयाकरणः । द्वारि नियुक्तो दौवारिकः । स्वस्ति इत्याह सौवस्तिकः । न्यग्रोधस्येदं नैयग्रोधम् । व्यासादेः किः ।व्यासस्यापत्यं वैयासकिः ॥ सुधातुरकङ् च । सुधातुरिञ् स्यादकादेशश्च । सुधातुरपत्यं साधातैकिः ।शोभनोऽश्वः खश्वः। त वेदेति सौवश्वः । न्याये कुशलो नैयायिकः। तदधीते इत्यादि । तच्छास्त्रादि अधीते पठति वेद जानाति वा इत्येतस्मिभडणप्रत्ययो वक्तव्यः । उदा. व्याकरणमधीते पति भथवा वेद जानातीति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy