________________
तद्धितमक्रिया। . (२६७) • सिता वाक् विद्यते यस्यासौ वाचालः । एवं वाचाटः ।
लः समाहारप्रकृष्टयोः । नाम्नः समाहारप्रकृष्टयोर्विषये ल. प्रत्ययो भवति । क्लेशस्य समूहः-प्रकृष्टः क्लेशो वा केशलः ।
आलश्च आटश्च आलाटौ । कुत्सिवभाषिणि (स. ए.) बहुभाषिणीत्येके । कुत्सितं भाषत इत्येवंशीलः कुत्सितभाषी तस्मिन् अभिधेये वाचशब्दात माल, आट इत्येतो प्रत्ययौ भवतः। वान्, कुत्सिता वागस्पेति वाचाल, वाचारः एकत्र आल अन्यत्र आट (म. ए.) स्रो।
ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः। ईषदपरिसमाप्तः सर्वज्ञ इति सर्वज्ञकल्पः। ईषदपरिसमाप्तः पटुरिति पटुदेश्यः । पटुदेशीयः । ईषदूनः कविरिति कविदेश्यः। कविदेशीयः।
ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः। ईषदपरिसमाप्तौ (स. ए.) क. रुपदेश्यदेशीय (प्र.ब.) स्तोकमात्रमपरिसमाप्तौ अपरिपूर्णत्वे किंचिन्यूनत्वे वाच्ये नान्नः कल्प, देश्य, देशीय इत्येते त्रयः प्रत्यया भवन्ति । सर्वज्ञ, पटु, कवि, ईषदपरिसमाप्तः अपरिपूर्णः सर्वज्ञः सर्वज्ञकल्पः । ईषदसमाप्तः पटुः पटुदेश्यः । ईषदसमाप्तः पटुश्चतुरः पटुदेशीयः। ईषदसमातः कविः कविदेशीयः । त्रिषु क्रमेण कल्पदेश्यदेशीयप्रत्ययाः। प्रशंसायां रूपः। प्रशंसायां रूपः प्रत्ययो भवति । प्रशस्तो वैयाकरणो वैयाकरणरूपः। प्रशंसायां रूपः । प्रशंसायां श्लाघायां वाच्यमानायां रूपमस्ययो भवति वैयाकरण, मशस्तो वैयाकरणो व्याकरणस्प पाठी वैयाकरणरूपः ।
कुत्सायां पाशः । कुत्सायां वाच्यायां सत्यां पाशः प्रत्ययो . भवति । कुत्सितो वैयाकरणो वैयाकरणपाशः।
कुत्सायां पाशः । इत्यपि पठन्ति । तन्मते कुत्सितो देशः देशपाशः । एवं भिषक्पाशः इत्युदाहरणम् ।
भूतपूर्व चरन । भूतपूर्वेऽर्थे वाच्ये सति चरट् प्रत्ययो भवति। पूर्व भूत इति भूत पूर्वः। पूर्व भूत इति भूतचरः । पूर्व दृष्ट इति दृष्टचरः । स्त्री चेदृष्टचरी । शितः