________________
( २६६ )
- सारस्वते प्रथमावृतौ .
यस्यासौ कृपालुः । मायालुः । दयालुः । सिध्मादेर्लः । सिध्मलः । स्नेहिलः ।
। ।
श्रद्धालुः । श्रद्धादेर्नानोऽस्त्यर्थे मत्पयो भवति । श्रद्धा, दया, कृपा श्रद्धास्यास्तीति श्रद्धालुः, दयाऽस्यास्तीति दयालुः, कृपाऽस्यास्तीति कृपालुः, सर्वत्र लु प्रत्ययः । (प्र. ए. ) खो० ।
अस्मायामेधास्रग्भ्योऽस्त्यर्थे विनिर्वक्तव्यः । तपो विद्यते यस्यासौ तपस्वी | यशस्वी । मायावी | मेघावी । स्रक् विते यस्यासौ स्रग्वी ।
अस्माया, मेधा इत्यादि । अस् इति वचादेरस् इत्युणादिसूत्रोको प्रत्ययस्तदन्तान्नान्नः पुनः । ' माया, मेधा, खज्, शब्देभ्यश्चास्त्यर्थे विनिप्रत्ययो वक्तव्यः' । इकार उच्चारणार्थः । तपस्, तप सन्तापे इत्यस्यासन्तस्य रूपं । विन्नतिपोस्यास्तीति तपस्वी | दण्डिन् शब्दवत् (प्र. ए.) इन शौ सौ हसेपः, नानो० एवं यशस्वी | एवं मापास्यास्तीति मायावी । मेधा बुद्धिरस्त्यस्येति मेधावी । स्रुक् मा• लास्यास्तीति स्रग्वी । स्रज् इत्यत्र अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदान्तताश्रयणाचोकुः जस्य गः (म. ए. ) सिः पूर्ववत् ।
वाचो ग्मिनिः । वाक्शब्दात् ग्मिनिः प्रत्ययो भवति अस्त्यर्थे । ग्मिनो गकारो व्यवधानार्थः । तेन अमेजमा वा इत्यस्याप्राप्तिः । प्रशस्ता वाक् विद्यते यस्यासौ वाग्मी ॥ एकादा किनिच्चासहाये । न विद्यते एकः सहायो यस्य स एकाकी | स्त्री चेत् एकाकिनी ।
वाचो ग्मिनिः । वाच्शब्दात् ग्मिनि प्रत्ययो भवति अस्त्यर्थे, गकारोऽनुबन्धः मकारादित्वनिषेधार्थः । तेन श्रमे जमा वा इति न भवति । वाच्, प्रशस्ता वागस्यास्तीति वाग्मी | मिन् प्र० चोः कुः पदान्वताश्रयणात् चपा अंबेजवाः कस्पगः स्वर० दण्डिन्शब्दवत् गोरप्यस्त्यर्थे मिनिः गावो विद्यन्तेऽस्येति गोमी ।
आलाटो कुस्मितभाषिणि । कुत्सितभाषिण्यर्थे वाच्ये सति आला प्रत्ययौ भवतः । आलप्रत्ययो बहुभाषित्वे कुत्सितापित्वे च । आटप्रत्ययस्तु केवलकुत्सितभाषित्वे । कु