________________
तद्धितमकियो।
(२६५) किमः किर्यश्च । किंशब्दस्य. किरादेशो भवति । वतोर्वकारस्य एकारादेशो भवति । किं परिमाणमस्येति किया । किमः किर्यश्च । वतु मत्यये परे किंशब्दस्य किरित्यादेशः कृत्स्नस्य भवति, पतोर्वकारस्य यकारो भवति । अनेन किमः किवस्य यः चकारात् शित्त्वं गुरुत्वं विनापि सर्वस्य किरादेशः (म. ए.) पूर्ववत् । एतद २ उभयत्रापि वतुम० ।
आ इश्चैतदो वा । एतदष्टेरात्वं भवति वतौ परे । यस्मिन्पक्षे आत्वं न तस्मिन्पक्षे इशादेशः स्यात् । शकारः सर्वादेशार्थः । एतत्परिमाणमस्येति एतावान् । इयान । एतदष्टे
आत्वम् । यस्मिन्पक्षे आत्वं न तत्र एतद इशादेशः। चकाराद्वतोर्वकारस्य यकारः । वा शब्दोऽनुक्तसमुच्चयार्थः। तेन इदमो वतुः प्रत्ययः । इदम इश् चकाराद्वतोर्वकारस्य यश्चेति वाच्यम् । इदं परिमाणं यस्य स इयान । शकारः सर्वोदेशार्थः।
आइशचैतदोवा । वतु प्रत्यये परे एतद्शब्दस्य आ इश इत्येतावादेशी भवतः । गुरुशिश्चेति न्यायात् कृत्स्नस्य वा इति गुरुस्वथापि चकारग्रहणादन्तस्यैव टेराकारादेशो न । कृत्स्सस्य इश इवि शित् गुरु शिवेवि शित्वात् सर्वस्य एतद इ इत्यादेशः। वाग्रहणात् यत्र इशादेशस्तन वकारस्य यः, अन्यत्र न । एतावत, इयत् (म.ए.) पूर्ववत् त्रिवोनुम्, हसेपः, संयोगान्तस्य लोपः।
तुन्दादेरिलः। तुन्दादेर्गणात् इलः प्रत्ययो भवति । प्रशस्तं तुन्दं यस्यासौ तुन्दिलः । उदरिलः ।
तुन्दादेरिलः । तुन्दादेः शब्दावस्त्यर्थे इलमत्ययो भवति । तुन्द, सुन्दमस्या. स्तीति सुन्दिलः । इलम० । यस्यलोपः स्वर० (म. ए.) एवं उदरिलः, फेनिलः ।
औनत्ये दन्तादुरः । औन्नत्येऽर्थे वाच्ये सति दन्तशब्दादुरः प्रत्ययो भवति । उन्नता दन्ता यस्यासौ दन्तुरः।
औनत्ये दन्तादुरः। दन्तशब्दात् मौनत्ये उच्चत्वे अर्थे उरमत्ययो भवति । उनता उच्चा दन्ता अस्यति दन्तुरः ।। श्रद्धादेलुः। श्रद्धा विद्यते यस्यासौ श्रद्धालुः । कपा विद्यते
३४