SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ( २६४ ) सारस्वते प्रथमवृत्ती पि (म.ए.) इनां 'शौ सौ दीर्घः ' 'हसेपः ० ' ' नानो० ' हृषद्, हपदः सन्त्पस्यामिति दृषद्वती । अकारोपधत्वाद्वतुः उकारानुबन्धत्वात् 'ति' इति ईषु । कचि द्वौ दीर्घः । क्वचिद्वतुप्रत्यये परे दीर्घत्वमपि भवति । यथा अमरावती, पद्मावती, मृगावती, पुष्करावती, उदुम्बरावती, महीवती, हनूमान् इत्यादि । पुष्पावती, शरावती, सांप्रतं मान्तोपधत्वं विनापि वतुमत्ययं वक्तव्येनाह । तडिदादिभ्यश्व । तडिदादिभ्यः शब्देभ्यो वतुः प्रत्ययो भवति । तडिद्विद्यते यस्यासौ तडित्वान् । भानि नक्षत्राणि विद्यन्ते यस्यासौ भवान् | यशस्वान् । मरुद्विद्यते यस्यासौ मरुत्वान् । तकारान्तस्य सकारान्तस्य हसादावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या । यस्वरादौ प्रत्ययमात्रे परे सर्वेषामपदान्तता भवति ईये परे पदान्तता । तेन भवदीयम् । तडिदादिभ्यश्चेति । तडिदादिम्यो मान्वोपधत्वरहितेम्योऽपि बहुमत्पयो भवति । चकारात् तडित् इत्यत्र उपसर्जनत्वं न भवति । तडित् तडिदस्यास्मिन् वा स्तीति तडित्वान् । एवं विद्युत्, विद्युदस्यास्मिन् वास्तीति विद्युत्वान् उभयत्रापि वतुप्रत्ययो भवति । पूर्ववत् । एवं सरस्वान्, मरुत्वान्, समिद्वान्, चकारात् राजन्वान् । राजन्वती सौराज्ये, उदधौ उदन्वान् एतौ निपात्यौ | तथा 'चूडासिध्यादेश्च ल प्रत्ययः' चूडाऽस्त्यस्येति चूडालः, सिध्मलः, मांसलः, अंसलः इत्यादि ऐश्वमैं स्वशब्दादामिन् स्वं ऐश्वर्यं अस्त्यस्येति स्वामी । एतत्किं यत्तद्रचः परिमाणे वतुः । एतत्कियत्तद्वयः शब्देभ्यः परिमाणेऽर्थे वतुः प्रत्ययो भवति । एतत्किमित्यादि । एतद्, किम्, यद्, तद् इत्येतेभ्यः शब्देभ्यः परिमाऽ वतुप्रत्ययो भवति । उकार उच्चारणार्थं ईव्विधानार्थः । यद्, तद्, यत् परिमा णमस्य यावान् तत्परिमाणमस्य तावान् परिमाणे वत् । यत्तदोरा । यत्तदोष्टेरात्वं भवति वतौ परे । यत्परिमाणमस्येति यावान् । तावान् । यत्तदोरा । यद्, तद् इत्येतयोष्टेराकारो भवति परिमाणेऽर्थे वतौ परे इत्यर्थः । यावत् तावत् उभयत्र (म. ए. ) त्रितो नुम् अत्वसोसौ हसेपः संयोगान्तस्येति तलोपः सिद्धम् | स्त्रीलिङ्गे यावती । नपुंसके यावत् । किम्, किंपरिमाणमस्येति कि यान् एतत्किमित्यादि नावतु प्र० ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy