SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रक्रिया | ( २६३ ) मान्नोपधस्तस्माद्वत्विनौ, मकारान्तान्मकारोपधादकारान्तादकारोपधाञ्च वत्विनौ प्रत्ययौ भवतः अस्त्यर्थे । मघोऽस्यास्तीति मघवान् ॥ श्रियां यशसि सौभाग्ये योनौ कान्तौ महिनि च ॥ सूर्ये संज्ञाविशेषे च मृगाङ्केऽपि भगः स्मृतः ॥ भगं भाग्यं विद्यते यस्यासौ भगवान् | लक्ष्मीरस्यास्तीति लक्ष्मीवान् । पुत्रोऽस्यास्तीति पुत्रवान् । धनमस्यास्तीति धनवान् धनी | छत्रमस्यास्तीति छत्रवान् छत्री । इनां शौ सौ० । दण्डो विद्यते यस्यासौ दण्डवान् दण्डी । क्षेत्रं विद्यते यस्यासौ क्षेत्रवान क्षेत्री | विद्यास्यास्तीति विद्यावान् । दृषदो विद्यन्ते यस्यासौ दृषद्वान् ढषद्वती भूमिः । ष्टितः । यशोऽस्यास्तीति यशस्वान् । किं विद्यते यस्यासौ किंवान् । कामो विद्यते यस्यासौ कामी । कृमयो विद्यन्ते यस्यासौ कृमिवान् । शमोऽस्यास्तीति शमी | दमोऽस्यास्तीति दमी । मान्तोपधाद्वत्विनौ । अश्चमश्धमौ, अन्तश्च उपधा च अन्तोषधे । मौ अन्तोपधे यस्य स मान्तोपधस्तस्मात् ( पं. ए.) पुनः पूर्वं सवर्णे • अग्रे वत्विन् चतुश्च इन्च वत्विनौ (म. ब. ) पूर्व चपा० द्विपदं सूत्रं मकारान्तान्मकारोपधाच्च तथा अकारान्तादकारोपधाच्च यद्वा अवर्णान्ताद् अवर्णोपधाच्च नाम्नोऽस्त्यर्थे वतु इन एतौ द्वौ प्रत्ययौ भवतः । इनप्रत्ययस्तु अकारान्तादेव भवत्यस्त्यर्थे । प्रथमं मान्तो दाहरणम् | किम्, किमस्यास्तीति वाक्ये अत्र वतुः वत् । क्वचित्पदान्ताश्रयणान्मोनुस्वारः त्रितोनुम् अत्वसो० हसेपः संयोगां ० किंवान्, लक्ष्मीरस्यास्तीति लक्ष्मीवान्, अत्र मकारोपधात् वतुर्नामादिभ्यः इति ऊमिवान्, भूमिवान्, भूमान्, तिमिमान, इत्यादौ मान्तोपधत्वेऽपि न वतुप्रत्ययः किंतु मतुप्रत्यय एव । शम, रामो sस्यास्तीति गमी अत्र मकारोपधत्वात् अकारान्तत्वा च इन् । एवं भानि नक्षत्राणि सन्त्यस्येति भवान् चन्द्रः । अथवा भानि नक्षत्राणि सन्त्यस्मिन् इति भवान् आकाशः । अत्र अकारान्तात् वतुः एवं मालावान्, दयावान्, कृपावान्, अत्र अकारान्तात् वतुः । धन, छत्र, दण्ड, धनमस्यास्तीति धनी । छत्रमरयास्तीति छत्री | दण्डोऽस्यास्तीति दण्डी । एषु सर्वत्र इन् अकारान्तेभ्यः यस्य लोपः स्वर० त्रिष्व
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy